________________
प्रथमं परिशिष्टम्- टिप्पनानि सत्यमेतत्, किन्तु क्षायोपशमिकसम्यक्त्वश्रुतचारित्राणामपि समुदितानां क्षायिकसम्यक्त्वादिनिबन्धनत्वेन पारम्पर्येण मोक्षहेतुत्वाददोषः ॥१०४॥" - आव० हारि० ।
[पृ० ३३८] “पडिसेवणा उ भावो, सो पुण कुसलो य होजऽकुसलो वा । कुसलेण होइ कप्पो, अकुसलपरिणामतो दप्पो ॥३९॥ प्रतिषेवणा द्विविधा-द्रव्यरूपा भावरूपा च प्रतिषेवणक्रियायाः कर्तृकर्मगतत्वात्, तत्र या तस्य तस्य वस्तुनः प्रतिषेव्यमानता सा द्रव्यरूपा प्रतिषेवणा, यस्तु जीवस्य तथा तथा प्रतिषेवकत्वपरिणामः, सा भावरूपा प्रतिषेवणा सैव चेह ग्राह्या, जीवपरिणामानुरूपतः प्रायश्चित्तविधिप्रवृत्तेः, तथा चाह-पडिसेवणा उ भावो प्रतिषेवणा नाम तुरेवकारार्थो भिन्नक्रमश्च, भाव एव जीवस्याध्यवसाय एव नान्या, स च भावो द्विधा कुशलोऽकुशलश्च, तत्र कुशलो ज्ञानादिरूपोऽकुशलोऽविरत्यादिरूपः, तत्र या कुशलेन परिणामेन बाह्यवस्तुप्रतिषेवणा सा कल्पः, पदैकदेशे पदसमुदायोपचारात् कल्पप्रतिषेवणा, कल्पिका इति भावः, या पुनरकुशलपरिणामतः प्रतिषेवणा सा दर्पः, दर्पप्रतिषेवणा दर्पिका इत्यर्थः ।
मूलगुण- उत्तरगुणे, दुविहा पडिसेवणा समासेण । मूलगुणे पंचविहा पिंडविसोहाइया इयरा ॥४१॥ प्रतिसेवना समासेन संक्षेपेण द्विविधा, तद्यथा-मूलगुणे मूलगुणविषया उत्तरगुणे उत्तरगुणविषया, तत्र मूलगुणविषया पञ्चविधा प्राणतिपातमृषावादादत्तादानमैथुनपरिग्रहरूपा, इतरा उत्तरगुणविषया पिण्डविशुद्ध्यादिविषया अनेकविधा, अत्रादिशब्दात्समित्यादिपरिग्रहः, किमुक्तं भवति ? मूलगुणेषु प्राणातिपातविरत्यादिषु उत्तरगुणेषु पिण्डविशुद्ध्यादिषु यथाक्रमं प्रतिसेवना प्राणातिपातादिलक्षणा पञ्चविधा आधाकर्मोपभोगादिलक्षणा अनेकविधेति, तत्र मूलगुणप्रतिसेवना संरम्भादिभेदतश्चित्रा उत्तरगुणप्रतिसेवना त्वतिक्रमादिभेदतः ।।
आलोयण पडिकमणे, मीसविवेगे तहा विउस्सग्गे । तवच्छेय मूल अणवट्ठिया य पारंचिए चेव ॥५३॥ आङ् मर्यादायाम्, सा च मर्यादा इयम् जह बालो जंपतो, कजमकजं व उज्जुए भणइ । तं तह आलोएजा मायामयविप्पमुक्को य ॥१॥ अनया मर्यादया लोचू दर्शने [पा० धा० १६४] चुरादित्वात् णिच्, लोकनं लोचना प्रकटीकरणम्, आलोचनं गुरोः पुरतो वचसा प्रकटीकरणमितिभावः यत् प्रायश्चित्तमालोचनामात्रेण शुध्यति, तदालोचनार्हतया कारणे कार्योपचारादालोचनम्, तथा प्रतिक्रमणं दोषात् प्रतिनिवर्त्तनमपुनः-करणतया मिथ्यादुष्कृतप्रदानमित्यर्थः, तदर्ह प्रायश्चित्तमपि प्रतिक्रमणम्, किमुक्तं भवति ? [यत्] प्रायश्चित्तं मिथ्यादृष्कृतमात्रेणैव शुद्धिमासादयति, न च गुरुसमक्षमालोच्यते, यथा सहसानुपयोगतः श्लेष्मादिप्रक्षेपादुपजातं प्रायश्चित्तम्, तथाहि-सहसानुपयुक्ते यदि श्लेष्मादि प्रक्षिप्तं भवति, न च हिंसादिकं दोषमापनस्तर्हि गुरुसमक्षमालोचनामन्तरेणापि मिथ्यादुःकृतप्रदानमात्रेण स शुध्यति, तत् प्रतिक्रमणार्हत्वात् प्रतिक्रमणम्, यस्मिन् पुनः प्रतिसेविते प्रायश्चित्ते यदि गुरुसमक्षमालोचयति, आलोच्य यो गुरुसंदिष्टः प्रतिक्रामति पश्चाच्च मिथ्यादुःकृतमिति ब्रूते तदा शुध्यति, तत् आलोचनाप्रतिक्रमणलक्षणोभयार्हत्वात् मिश्रम्, तथा विवेकः परित्यागः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.