SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम् - टिप्पनानि .' कंष शिष' इत्यादिहिंसार्थो दण्डकधातुः, कष्यन्ते बाध्यन्ते प्राणिनोऽनेनेति कषं कर्म भवो वा, तदायो लाभ एषां यतस्ततः कषायाः क्रोधादयः । अथवा, यथोक्तं कषम् अयधातोरिनन्तस्यायन्ति गमयन्ति प्रापयन्ति यतस्ततः कषाया इति ॥ २९७८ ॥ विशेषाव० मलधारि० ॥ २२ [पृ०३२७] “पढमिल्लयाण उदए नियमा संजोयणाकसायाणं । सम्मद्दंसणलंभं भवसिद्धीया वि न लहंति ॥ १०८ ॥ | उत्तरगाथा अपि प्रायः कियत्योऽपि उक्तसंबन्धा एवेति, तत्र व्याख्याप्रथमा एव प्रथमिल्लुकाः, देशीवचनतो जहा पढमिल्ला एत्थ घरा इत्यादि, तेषां प्रथमिल्लकानाम् अनन्तानुबन्धिनां क्रोधादीनामित्युक्तं भवति, प्राथम्यं चैषां सम्यक्त्वाख्यप्रथमगुणविघातित्वात् क्षपणक्रमाद्वेति, उदयः उदीरणावलिकागततत्पुद्गलोद्भूतसामर्थ्यता, तस्मिन् उदये, किम् ?- नियमात् नियमेनेति, अस्य व्यवहितपदेन सार्धं संबन्धः, तं च दर्शयिष्यामः, इदानीं पुनः प्रथमिल्लका एव विशिष्यन्ते - किंविशिष्टानां प्रथमिल्लुकानाम् ? कर्मणा तत्फलभूतेन संसारेण वा संयोजयन्तीति संयोजनाः, संयोजनाश्च ते कषायाश्चेति विग्रह: तेषामुदये, किम् ? नियमेन सम्यक् अविपरीतं दर्शनं सम्यग्दर्शनं तस्य लाभः प्राप्तिः सम्यग्दर्शनलाभः तम् भवे सिद्धिर्येषां ते भवसिद्धिकाः । आहसर्वेषामेव भवे सति सिद्धिर्भवति ?, उच्यते, एवमेतत्, किन्तु इह प्रकरणात् तद्भवो गृह्यते, तद्भवसिद्धिका अपि न लभन्ते न प्राप्नुवन्ति, अपिशब्दाद् अभव्यास्तु नैव, अथवा परीतसंसारिणोऽपि नैवेति गाथार्थः ॥ १०८॥ भावे खओवसमि दुवालसंगंपि होइ सुयनाणं । केवलियनाणलंभो नन्नत्थ ख कसायाणं ।।१०४।। व्या० भवनं भावः तस्मिन् स चौदयिकाद्यनेकभेदः, अत आह- क्षायोपशमिके द्वादश अङ्गानि यस्मिंस्तत् द्वादशाङ्गं भवति श्रुतज्ञानम्, अपिशब्दाद् अङ्गबाह्यमपि, तथा मत्यादिज्ञानत्रयमपि, तथा सामायिकचतुष्टयमपि तता केवलस्य भावः कैवल्यं घातिकर्मवियोग इत्यर्थः, तस्मिन् ज्ञानं कैवल्यज्ञानम्, 'कैवल्ये सति' अनेन ज्ञानग्रहणेनाज्ञानिप्रकृतिमुक्तपुरुषप्रतिपादनपरनयमतव्यवच्छेदमाह, [ ग्रन्थाग्रं २००० ] तत्र बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयते इति वचनात् प्रकृतिमुक्तस्य च बुद्ध्यभावात् ज्ञानाभाव इति, तस्य लाभः प्राप्तिः, कथम् ? कषायाणां क्रोधादीनां क्षति नान्यत्र नान्येन प्रकारेण, इह च छद्मस्थवीतरागावस्थायां कषायक्षये सत्यपि अक्षेपेण कैवल्यज्ञानाभावे ज्ञानावरणक्षयानन्तरं च भावेऽपि कषायक्षयग्रहणं वस्तुतो मोहनीयभेदकषायाणामत्र प्राधान्यख्यापनार्थमिति, कषायक्षय एव सति निर्वाणं भवति तद्भावे त्रयाणामपि सम्यक्त्वादीनां क्षायिकत्वसिद्धेः । आहएवं तर्हि यदादावुक्तं श्रुतज्ञानेऽपि जीवो वर्त्तमानः सन्न प्राप्नोति मोक्षं यस्तपः संयमात्मकयोगशून्यः इति, तद्विशेषणमनर्थकम् श्रुते सति तपः संयमात्मकयोगसहिष्णोरपि मोक्षाभावादिति, अत्रोच्यते, १. “६८५ कष, ६८६, खष, ६८७, शिष ६८८ जष, ६८९ शष, ६९०वर्ष ६९१ मष, ६९२ रुष, ६९३ रिष, हिंसार्थाः । " - पा० धा० ॥ Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy