________________
प्रथमं परिशिष्टम्- टिप्पनानि
नापि परप्रतिष्ठितः परस्यापि निरपराधतया अपराधसम्भावनाया अभावतः क्रोधालम्बनत्वायोगात् । दृश्यते च कस्यापि कदाचिदेवमेव केवलक्रोधवेदनीयोदयादुपजायमानः क्रोधः, तथा च स पश्चात् ब्रूते- अहो मे निष्कारणःकोपः, नैष विरूपं भाषते न च किञ्चिद्विनाशयति, अत एवोक्तं पूर्वमहर्षिभिः
सापेक्षाणि निरपेक्षाणि च कर्माणि फलविपाकेषु ।
सोपक्रमं निरुपक्रमं च दृष्टं यथाऽऽयुष्कम् ॥१॥ इति, एवं मानमायालोभा अपि आत्मपरोभयप्रतिष्ठिता अप्रतिष्ठिताश्च भावनीयाः ।
तदेवमधिकरणभेदेन भेद उक्तः, सम्प्रति कारणभेदतो भेदमाह- ‘कति[हिं] णं भंते ! ठाणेहिं कोहुप्पत्ती हवई' इत्यादि, तिष्ठन्त्येभिरिति स्थानानि कारणानि, कतिभिः- कियत्सङ्ख्याकैः स्थानैः कारणैः क्रोधोत्पत्तिर्भवति ?, भगवानाह- चतुर्भिः स्थानैः, तान्येव स्थानान्याह- 'खेत्तं पडुच्च' इत्यादि, तत्र नैरयिकाणां नैरयिकक्षेत्रं प्रतीत्य तिरश्चां तिर्यक्षेत्रं प्रतीत्य मनुष्याणां मनुष्यक्षेत्रं देवानां देवक्षेत्रम् । ‘वत्थु पडुच्चे'ति वस्तु सचेतनमचेतनं वा शरीरं प्रतीत्य दुःसंस्थितं विरूपं वा । ‘उपधिं प्रतीत्ये'ति यत् यस्योपकरणं तस्य तत् चौरकादिनाऽपह्रियमाणमन्यथा वा प्रतीत्य, एवं नैरयिकादिदण्डकसूत्रमपि । ___ सम्प्रति सम्यग्दर्शनादिगुणविघातित्वेन भेदमाह- सम्यक्त्वगुणविघातकृदनन्तानुबन्धी देशविरतिगुणविघाती अप्रत्याख्यानः सर्वविरतिगुणविधाती प्रत्याख्यानावरणः यथाख्यातचारित्रविघातकः संज्वलनः, एतांश्चतुरोऽपि नैरयिकादिदण्डक्रमेण चिन्तयति एवं मान-माया-लोभा अपि प्रत्येकं चतुर्विधाः सामान्यतो दण्डकक्रमेण च भावनीयाः । ___ सम्प्रत्येतेषामेव क्रोधादीनां निर्वृत्तिभेदतोऽवस्थाभेदतश्च भेदमाह- ‘कइविहे णं भंते !' इत्यादि, यदा परस्यापराधं सम्यगवबुद्ध्य कोपकारणं च व्यवहारतः पुष्टावलम्ब्य नान्यथाऽस्य शिक्षोपजायते इत्याभोग्य कोपं विधत्ते तदा स कोप आभोगनिर्वर्तितः १, यदा त्वेवमेव तथाविधमुहूर्त्तवशाद् गुणदोषविचारणाशून्यः परवशीभूय कोपं कुरुते तदा स कोपोऽनाभोगनिर्वर्त्तितः २, उपशान्तःअनुदयावस्थः ३, अनुपशान्तः- उदयावस्थः ४, एवमेतद्विषयं दण्डकसूत्रमपि भावनीयम् । एवं मानमाया-लोभाः प्रत्येकं चतुष्प्रकाराः सामान्यतो दण्डकक्रमेण च वेदितव्याः ॥"
- इति मलयगिरिसूरि विरचितायां वृत्तौ ॥ [पृ०३२६] “कम्मं कसं भवो वा कसमाओ सिं जओ कसाया तो । कसमाययंति व जओ गमयंति कसं कसाय त्ति ॥१२२८॥ ॥२९७८॥ कषन्ति परस्परं हिंसन्ति प्राणिनोऽस्मिन्निति कष कर्म, भवो वा; अथवा, कष्यन्ते शारीर-मानसदुःखलौघृष्यन्ते प्राणिनोऽस्मिन्निति कषं कर्मैव, भव एव वा; यतो यस्मात् कषं कर्म, कषो वा भव आयो लाभो येषां ततस्ते कषायाः। अथवा, कषमाययन्ति यतः, अतः कषायाः, कषं गमयन्तीत्यर्थः ॥१२२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org