SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ २० प्रथमं परिशिष्टम्- टिप्पनानि [सापेक्षाणि निरपेक्षाणि च] कर्माणि फलविपाकेषु । सोपक्रमं च निरुपक्रमं च दृष्टं यथाऽऽयुष्कम् ॥ इति । एवं तावदधिकरणभेदेन भेद उक्तः, अधुना सम्बन्धित्वेन भेद उच्यते, 'खेत्तं पडुच्च' इत्यादि, तत्र नारकाणां नारकक्षेत्रं प्रतीत्य तिरश्चां तिर्यक्क्षेत्रं मनुष्याणां मनुष्यक्षेत्रं देवानां देवक्षेत्रमिति, ‘वत्थु पडुच्च त्ति वस्तु सचेतनमचेतनं वा शरीरं प्रतीत्य दुष्टसंस्थितं विरूपं वा, ‘उपधिं पडुच्च' यद्यस्य उपकरणम् । ___ इदानीं सम्यग्दर्शनादिगुणघातित्वेन ‘अणंताणुबंधी'त्यादि अनन्तं संसारमनुबद्धं शीलमस्येति अनन्तानुबन्धी क्रोधः, तथा स्वल्पमपि प्रत्याख्यानमावृणोतीति अप्रत्याख्यानावरणः, प्रत्याख्यानावरणःसर्वं प्रत्याख्यानमावृणोतीति प्रत्याख्यानावरणः, संज्वलयतीति संज्वलनः, उक्तं च- तत्र "अनन्तान्युनुबध्नन्ति यतो जन्मानि भूतये । ततोऽनन्तानुबन्ध्याख्या क्रोधाद्येषु निदर्शिता ॥१॥ नाल्पमप्युत्सहेद्येषां प्रत्याख्यानमिहोदयात् । अप्रत्याख्यानसंज्ञाऽतो, द्वितीयेषु निवेशिता ॥२॥ सर्वसावधविरतिः प्रत्याख्यानमुदाहृतम् । तदावरणसंज्ञाऽतस्तृतीयेषु निवेशिता ॥३॥ शब्दादीन् विषयान् प्राप्य संज्वलन्ति यतो मुहुः । अतो संज्वलनीयाख्या, चतुर्थानामिहोच्यते ॥४॥" तेषामेव क्रोधादीनां निर्वृत्तिप्रतिभेद आख्यायते- 'आभोगनिव्वत्तिए' त्ति जानन् रुष्यति, 'अणाभोगनिव्वत्तिए' अजानन् रुष्यति, उपशान्त अनुदयावस्थः, अनुपशान्तः इति उदयप्राप्तः । - इति हरभिद्रसूरिविरचितायां प्रज्ञापनासूत्रवृत्तौ । 'कइपइट्ठिए णं भंते !' इत्यादि, कतिषु कियत्प्रकारेषु स्थानेषु प्रतिष्ठितो भदन्त ! क्रोधः ?, भगवानाह- चतुष्प्रतिष्ठितः, तद्यथा- आत्मप्रतिष्ठित इत्यादि, आत्मन्येव प्रतिष्ठितः आत्मप्रतिष्ठितः, किमुक्तं भवति ? स्वयमाचरितस्य ऐहिकं प्रत्यवायमवबुद्ध्य कश्चिदात्मन एवोपरि क्रुध्यति तदा आत्मप्रतिष्ठितः क्रोध इति, यदा पर उदीरयति आक्रोशादिना कोपं तदा किल तद्विषयः क्रोध उपजायते इति स परप्रतिष्ठित इति, नैगमनयदर्शनमेतत्, नैगमनयो हि तद्विषयमात्रेणापि तत्प्रतिष्ठितं मन्यते यथा जीवे सम्यग्दर्शनमजीवे सम्यग्दर्शनमित्यादयोऽष्टौ भङ्गाः सम्यग्दर्शनस्याधिकरण-चिन्तायामावश्यके। ___ तदुभयप्रतिष्ठितः आत्मपररूपोभयप्रतिष्ठितः, यदा कश्चित् तथाविधापराधवशादात्मपरविषयं क्रोधमाधत्ते इति । अप्रतिष्ठितो नाम यदैष स्वयं दुष्चरणमाक्रोशादिकं च कारणं विना निरालम्बन एव केवलक्रोधवेदनीयादुपजायते, स हि नात्मप्रतिष्ठितः स्वयं दुश्चरणाभावतः स्वात्मविषयत्वाभावात्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy