________________
प्रथमं परिशिष्टम्- टिप्पनानि
अप्पाणं तह य सव्वसंजोगे । देहोवहिवोसगं निस्संगो सव्वहा कुणइ ॥१२॥ व्या० देहविविक्तं पश्यत्यात्मानं तथा च सर्वसंयोगानिति विवेकलिङ्गम्, देहोपधिव्युत्सर्ग निःसङ्गः सर्वथा करोति व्युत्सर्गलिङ्गमिति गाथार्थः ॥९२॥" - ध्यानशतक० हारि० ।
[पृ०३२४] “अह खंतिमद्दवजवमुत्तीओ जिणमयप्पहाणाओ । आलंबणाई जेहिं सुक्कज्झाणं समारुहइ ॥६९॥ व्या० अथेत्यासनविशेषानन्तर्ये, क्षान्तिमावार्जवमुक्तयः क्रोधमान-माया-लोभपरित्यागरूपाः, परित्यागश्च क्रोधनिवर्तनमुदयनिरोधः उदीर्णस्य वा विफलीकरणमिति, एवं मानादिष्वपि भावनीयम्, एता एव शान्तिमाईवार्जवमुक्तयो विशेष्यन्ते- जिनमतप्रधाना इति, जिनमते तीर्थकरदर्शने कर्मक्षयहेतुतामधिकृत्य प्रधानाः, प्राधान्यं चासामकषायं चारित्रं चारित्राच्च नियमतो मुक्तिरितिकृत्वा, ततश्चैता आलम्बनानि प्राग्निरूपितशब्दार्थानि, पैरालम्बनैः करणभूतैः शुक्लध्यानं समारोहति, तथा च क्षान्त्याद्यालम्बना एव शुक्लध्यानं समासादयन्ति, नान्य इति गाथार्थः ॥६९॥" - ध्यानशतक० हारि० । ___“कोहो अ माणो अ अणिग्गहीआ, माया अ लोभो अ पवड्डमाणा । चत्तारि एए कसिणा कसाया, सिंचंति मूलाइं पुणब्भवस्स ॥८/४०॥ क्रोधादीनामेव परलोकापायमाहकोहो त्ति सूत्रम्, क्रोधश्च मानश्चानिगृहीतौ उच्छृङ्खलौ, माया च लोभश्च विवर्धमानौ च वृद्धि गच्छन्तौ, चत्वार एते क्रोधादयः कृत्स्नाः संपूर्णाः कृष्णा वा क्लिष्टाः कषायाः सिञ्चन्ति अशुभभावजलेन मूलानि तथाविधकर्मरूपाणि पुनर्भवस्य पुनर्जन्मतरोरिति सूत्रार्थः ॥८/४०॥" - दशवै० हारि० ॥
[पृ०३२५] ‘कइ णं भंते ! कसाया पण्णत्ता ?' इत्यादि, कियन्तो भदन्त ! कषायाः प्रज्ञप्ताः?, तत्र कषाया इतिनिरुक्तमुच्यते,
"सुहदुक्खबहुसतीयं कम्मक्खेत्तं कसंति ते जम्हा ।
कलुसंति जं च जीवं तेण कसाय त्ति वुच्चंति ॥१॥ अहवा- कम्मं कसं भवो वा कसमायो सिं जतो कसायातो ।
कसमाययंति व जतो गमयंति कसं कसाय त्ति ॥२॥" निर्वचनसूत्रं क्षुण्णार्थम्, नेरइयाणमित्यादि प्रश्नः, निर्वचनम्- चत्तारि कसाया पण्णत्ता' इत्येतत् प्रवाहापेक्षया भावनीयं तत्कर्मापुद्गलप्रदेशाऽनुभवतो वेति, आतपइट्ठित इति आत्मन्येव प्रतिष्ठितः, एतदुक्तं भवति- यत् स्वयमाचरति तस्य ऐहिकं प्रत्यपायं दृष्ट्वा आत्मनः क्रुध्यतीत्यात्मप्रतिष्ठितः, परप्रतिष्ठितः यदा पर उदीरयति आक्रोशादिना तदा नैगमनयदर्शनेन परप्रतिष्ठित उच्यते, कथम् ? यथा सम्यग्दर्शनपरीक्षायामधकिरणानुयोगद्वारे आत्मसन्निधाने जीवे सम्यग्दर्शनं परसन्निधानेऽजीवे सम्यग्दर्शनमित्यष्टास्वपि भङ्गेषु भवति एवमिहापीति, उभयपतिट्ठिए आत्मपरप्रतिष्ठितः, अनुभयप्रतिष्ठित इति [न] आक्रोशादिकारणवशाद् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org