________________
प्रथमं परिशिष्टम्- टिप्पनानि च पूर्वगतश्रुतानुसारेणैव भवति, अविचारादि पूर्ववदिति गाथार्थः ॥८०॥ निव्वाणगमणकाले केवलिणो दरनिरुद्धजोगस्स । सुहुमकिरियाऽनियटिं तइयं तणुकायकिरियस्स ॥८१॥ व्या० निर्वाणगमनकाले मोक्षगमनप्रत्यासन्नसमये केवलिनः सर्वज्ञस्य मनोवाग्योगद्वये निरुद्ध सति अर्द्धनिरुद्धकाययोगस्य, किम् ?- सूक्ष्मक्रियाऽनिवर्ति सूक्ष्मा क्रिया यस्य तत्तथा सूक्ष्मक्रियं च तदनिवर्ति चेति नाम, निवर्तितुं शीलमस्येति निवर्ति प्रवर्द्धमानतरपरिणामात् न निवर्ति अनिवर्ति तृतीयम्, ध्यानमिति गम्यते, तनुकायक्रियस्ये ति तन्वी उच्छ्वासनिःश्वासादिलक्षणा कायक्रिया यस्य स तथाविधस्तस्येति गाथार्थः ॥८१॥ तस्सेव य सेलेसीगयस्स सेलो व्व णिप्पकंपस्स । वोच्छिन्नकिरियमप्पडिवाइ ज्झाणं परमसुक्कं ॥८२॥ व्या० तस्यैव च केवलिनः शैलेशीगतस्य शैलेशी प्राग्वर्णिता तां प्राप्तस्य, किंविशिष्टस्य ?- निरुद्धयोगत्वात् शैलेश इव निष्प्रकम्पस्य मेरोरिव स्थिरस्येत्यर्थः, किम् ? व्यवच्छिन्नक्रियं योगाभावात् तद् अप्रतिपाति अनुपरतस्वभावमिति, एतदेव चास्य नाम ध्यानं परमशुक्लं प्रकटार्थमिति गाथार्थः ॥८२॥" - ध्यानशतक० हारि० ।
[पृ०३२३ पं०१-१२] ‘पर्याप्तमात्रसंज्ञिनो यावन्ति जघन्ययोगिनः । भवन्ति मनोद्रव्याणि तद्व्यापारश्च यन्मात्रः ॥३०५९॥ तदसंख्यगुणविहीनं समय-समये निरुन्धानः सः । मनसः सर्वनिरोधं कुर्यादसंख्येयसमयैः ॥३०६०॥ पर्याप्तमात्रद्वीन्द्रियजघन्यवाग्योगपर्यया ये तु । तदसंख्यगुणविहीनान् समये समये निरुन्धानः ॥३०६१॥ सर्ववाग्योगरोधं संख्यातीतैः करोति समयैः । ततश्च सूक्ष्मपनकस्य प्रथमसमयोपपन्नस्य ॥३०६२॥ यः किल जघन्ययोगस्तदसंख्येयगुणहीनमेकैकस्मिन् । समये निरुन्धानो देहविभागं च मुञ्चन् ॥३०६३॥ रुणद्धि स काययोगं संख्यातीतैरेव समयैः । ततः कृतयोगनिरोधः शैलेशीभावतामेति ॥'३०६४॥ - इति संस्कृते छाया ।
हस्सक्खराई मज्झेण जेण कालेण पंच भण्णंति । अत्थइ सेलेसिगओ तत्तियमेत्तं तओ कालं ॥३०६८॥ तणुरोहारंभाओ झायइ सुहुमकिरियानियट्टि सो । वुच्छिन्नकिरियमप्पडिवाई सेलेसिकालम्मि ॥३०६९॥ नातिशीघेर्न चाप्यतिस्थिरैः किन्तु मध्यमभङ्ग्या यावता कालेन ‘अ इ उ ऋ लु' इत्येतानि पञ्च ह्रस्वाक्षराणि भण्यन्ते, एतावन्तं कालं शैलेशीगतस्तकोऽसौ तिष्ठतीति ॥३०६८॥ किं पुनस्तत्र ध्यानं ध्यायति ? इत्याह- तणुरोहा... तनोः काययोगस्य निरोधारम्भसमयात् प्रभृति सूक्ष्मक्रियानिवृत्तिरूपं शुक्लध्यानमसौ ध्यायति। ततः सर्वयोगनिरोधादूर्ध्वं शैलेशीकाले समुच्छिन्नक्रियमप्रतिपाति शुक्लध्यानं ध्यायतीति ॥३०६९॥" - विशेषाव० मलधारि० ॥
__ "अधुना भावार्थमाह- चालिज्जइ बीभेइ य धीरो न परीसहोवसग्गेहिं । सुहमेसु न संमुज्झइ भावेसु न देवमायासु ॥९१॥ व्या० चाल्यते ध्यानात् न परीषहोपसगैर्बिभेति वा धीरः बुद्धिमान् स्थिरो वा न तेभ्य इत्यवधलिङ्गम्, सूक्ष्मेषु अत्यन्तगहनेषु न संमुह्यते न सम्मोहमुपगच्छति, भावेषु पदार्थेषु न देवमायासु अनेकरूपास्वित्यसम्मोहलिङ्गमिति गाथाक्षरार्थः ॥९१॥ देहविवित्तं पेच्छइ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org