________________
प्रथमं परिशिष्टम्- टिप्पनानि
[पृ० ३२१] “अशरणभावनामधिकृत्याह- जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ॥१५२॥ टीका- जन्मोत्पत्तिः । जरा वयोहानिः। मरणं प्राणपरित्यागः । एभ्यो भयानि तैरभिद्रुतेऽभिभूते । व्याधयो ज्वरातीसारहृद्रोगादयः । वेदना: शरीरजा मनोभवाश्च । व्याधिवेदनाग्रस्त व्याधिवेदनाभिर्गृहीते लोके प्राणिसमूहे । जिनवरा जिनप्रधानास्तीर्थकरा इत्यर्थः । तेषां वचनं वाग्योगस्तत्प्रतिपादितोऽर्थस्तमादाय क्षायोपशमिकभाववर्तिभिर्गणधरैर्दृब्धं द्वादशाङ्गं प्रवचनम्, तन्मुक्त्वाऽन्यत्र नास्ति शरणं त्राणमिति ॥१५२॥
संसारभावनामधिकृत्याह- माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे । व्रजति सुत: पितृतां भ्रातृतां पुनः शत्रुतां चैव ॥१५६॥ टीका- संसारे परिभ्रमतां सत्त्वानां माता भूत्वा भूयः सैव दुहिता भवति, सैव च पुनर्भार्या, सैव च संसृतौ परिवर्तमाना जामिरपि भवति । तथा पुत्रो भूत्वा पिता भवति । स एव सुतः पुनर्भ्रातृत्वमायाति । स एव च पुनः सपत्नो भवतीत्येवमाजवंजवीभावे प्राये संसारे सर्वसत्त्वाः पितृत्वेन मातृत्वेन पुत्रत्वेन शत्रुत्वेन चेत्यादिना संबन्धेन कृतसंबन्धा बभूवुरिति ॥१५६॥" - प्रशमरति० टीका ।
“उप्पायट्ठिइभंगाइपजयाणं जमेगवत्थुम्मि । नाणानयाणुसरणं पुव्वगयसुयाणुसारेणं ॥७७॥ व्या० उत्पादस्थितिभङ्गादिपर्यायाणाम्, उत्पादादयः प्रतीताः, आदिशब्दान्मूर्तामूर्तग्रहः, अमीषां पर्यायाणां यदेकस्मिन् द्रव्ये अण्वात्मादौ, किम् ? नानानयैः द्रव्यास्तिकादिभिरनुस्मरणं चिन्तनम्, कथम् ? पूर्वगतश्रुतानुसारेण पूर्वविदः, मरुदेव्यादीनां त्वन्यथा ॥ तत्किमित्याहसवियारमत्थवंजणजोगंतरओ तयं पढमसुक्कं । होइ पुहुत्तवितक्कं सवियारमरागभावस्स ॥७८॥ व्या० सविचारं सह विचारेण वर्तत इति सविचारम्, विचारः अर्थव्यञ्जनयोगसङ्क्रम इति, आह च- अर्थव्यञ्जनयोगान्तरतः, अर्थः द्रव्यं व्यञ्जनं शब्दः योग: मनःप्रभृति, एतदन्तरत: एतावद्भेदेन सविचारम्, अर्थाद्व्यञ्जनं सङ्क्रामतीति विभाषा, तकम् एतत् प्रथमं शुक्लम् आद्यशुक्लं भवति, किंनामेत्यत आह- पृथक्त्ववितर्क सविचारम्, पृथक्त्वेन भेदेन, विस्तीर्णभावेनान्ये, वितर्कः श्रुतं यस्मिन् तत्तथा, कस्येदं भवतीत्यत आह- अरागभावस्य रागपरिणामरहितस्येति गाथार्थः ॥७८॥" - ध्यानशतक० हारि० ।
[पृ०३२२] "जं पुण सुणिप्पकंपं निवायसरणप्पईवमिव चित्तं । उप्पायठिइभंगाइयाणमेगम्मि पज्जाए ॥७९॥ व्या० यत्पुनः सुनिष्प्रकम्पं विक्षेपरहितं निवातशरणप्रदीप इव निर्गतवातगृहैकदेशस्थदीप इव चित्तम् अन्तःकरणम्, क्व ? उत्पादस्थितिभङ्गादीनामेकस्मिन् पर्याये ॥७९॥ ततः किमत आह- अवियारमत्थवंजणजोगंतरओ तयं बितियसुक्कं । पुव्वगयसुयालंबणमेगत्तवितक्कमवियारं ॥८०॥ व्या० अविचारम् असङ्क्रमम्, कुतः ?अर्थव्यञ्जनयोगान्तरतः इति पूर्ववत्, तमेवंविधं द्वितीयं शुक्लं भवति, किमभिधानमित्यत आहएकत्ववितर्कमविचारम्, एकत्वेन अभेदेन वितर्कः व्यञ्जनरूपोऽर्थरूपो वा यस्य तत्तथा, इदमपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org