SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ १६ प्रथमं परिशिष्टम्- टिप्पनानि सारक्खणपरायणमणिटुं । सव्वाभिसंकणपरोवघायकलुसाउलं चित्तं ॥२२॥ व्या० शब्दादयश्च ते विषयाश्च शब्दादिविषयास्तेषां साधनं कारणं शब्दादिविषयसाधनं च तद्धनं च शब्दादिविषयसाधनधनं तत्संरक्षणे तत्परिपालने परायणम् उद्युक्तमिति विग्रहः, तथाऽनिष्टं सतामनभिलषणीयमित्यर्थः, इदमेव विशेष्यते-सर्वेषामभिशङ्कनेनाऽकुलमिति संबध्यते- न विद्मः कः किं करिष्यतीत्यादिलक्षणेन, तस्मात् सर्वेषां यथाशक्त्योपघात एव श्रेयानित्येवं परोपघातेन च, तथा कलुषयन्त्यात्मानमिति कलुषाः कषायास्तैराकुलं व्याप्तं यत् तत् तथोच्यते, चित्तम् अन्तःकरणम्, प्रकरणाद्रौद्रध्यानमिति गम्यते, इह च शब्दादिविषयसाधनं धनविशेषणं किल श्रावकस्य चैत्यधनसंरक्षणे न रौद्रध्यानमिति ज्ञापनार्थमिति गाथार्थः ॥२२॥" - ध्यानशतक० हारि० । [पृ०३२०] “तत्राज्ञाविचया-ऽपायविचययोः स्वरूपनिरूपणायाह- आप्तवचनं प्रवचनं चाज्ञाविचयस्तदर्थनिर्णयनम् । आश्रवविकथागौरवपरीषहाद्येष्वपायस्तु ॥२४८॥ टीका- आप्तः क्षीणाशेषरागद्वेषमोहस्तस्य वचनं प्रवचनम् अलीकादिशंकादिरहितं द्वादशाङ्गमागमः । तस्याः खल्वाज्ञायाः सर्वज्ञदत्ताया विचयो गवेषणं गुणवत्त्वेन निर्दोषत्वेन च । तस्यार्थः प्रवचनस्य निर्णयनं विनिश्चयः । सर्वाश्रवद्वारनिरोधैकरसत्वाद् गुणयुक्तम् । न कश्चिद्दोषोऽस्तीति । आज्ञाविचयोऽभ्यासः सूत्रार्थविषयः। आश्रवाः कायवाग्मनांसि । विकथा स्री-भक्त-चौर-जनपदविषयाः । गौरवमृद्धि-सात-रसाख्यं त्रिधा। परीषहाः क्षुत्पिपासादयः । आदिग्रहणादगुप्तत्वमसमितत्वं च । एतेषु वर्तमानस्य जन्तोरपायबहुत्वं नारकतिर्यक्त्वदेवमानुषजन्मसु प्रायेण प्रत्यवायाः संभवन्ति भूयांस इति पश्चार्धेन निरूपितमपायविचयम् ॥२४८॥ __ तृतीय-चतुर्थभेदयोर्निरूपणायाह- अशुभशुभकर्मपाकानुचिन्तनार्थो विपाकविचय: स्यात् । द्रव्यक्षेत्राकृत्यनुगमनं संस्थानविचयस्तु ॥२४९॥ टीका- अशुभं शुभं च कर्म द्वयोः कोट्योः वर्तते, तस्य पाको विपाकोऽनुभवो रस इत्यर्थः । तस्यानुचिन्तनं प्रयोजनमशुभानां कर्माशानामयं विपाकः शुभानां चायमिति । संसारभाजां जीवानां तदन्वेषणं विपाकविचयः । द्रव्यक्षेत्राकृत्यनुगमवान्, धर्मो द्रव्यमधर्मश्च, तो लोकपरिणामौ तयोः संस्थानं लोकाकाशस्यैव । तत्राधोमुखमल्लक इत्यादावुक्तम् । पुद्गलद्रव्यमनेकाकारमचित्तमहास्कन्धश्च सर्वलोकाकारः । जीवोऽप्यनेकाकारः शरीरादिभेदेन यावल्लोकाकारः समुद्घातकाले । कालोऽपि यदा क्रियामानं द्रव्यपर्यायः तदा द्रव्याकार एव । यदा तु स्वतन्त्रं कालद्रव्यं तदैकसमयोऽर्धतृतीयद्वीपसमुद्राकृतिरित्येकसंस्थानविचयः ॥२४९॥" - प्रशमरति० टीका। “आगमउवएसाणाणिसग्गओ जं जिणप्पणीयाणं । भावाणं सद्दहणं धम्मज्झाणस्स तं लिंगं ॥६७॥ व्या० इहागमोपदेशाज्ञानिसर्गतो यद् जिनप्रणीतानां तीर्थकरप्ररूपितानां द्रव्यादिपदार्थानां श्रद्धानम् अवितथा एत इत्यादिलक्षणं धर्मध्यानस्य तल्लिङ्गम्, तत्त्वश्रद्धानेन लिङ्ग्यते धर्मध्यायीति, इह चाऽऽगमः सूत्रमेव, तदनुसारेण कथनम् उपदेशः, आज्ञा त्वर्थः, निसर्गः स्वभाव इति गाथार्थः ॥६७॥" - ध्यानशतक० हारि० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy