________________
प्रथमं परिशिष्टम् - टिप्पनानि
मारणं प्राणवियोजनमसि - शक्ति - कुन्तादिभिः, आदिशब्दादागाढपरितापन - पाटनादिपरिग्रहः, एतेषु प्रणिधानम् अकुर्वतोऽपि करणं प्रति दृढाध्यवसानमित्यर्थः, प्रकरणाद् रौद्रध्यानमिति गम्यते, किंविशिष्टं प्रणिधानम् ?- अतिक्रोधग्रहग्रस्तम् अतीवोत्कटो यः क्रोधः रोषः स एवापायहेतुत्वाद् ग्रह ग्रहस्तेन ग्रस्तम् अभिभूतम्, क्रोधग्रहणाच्च मानादयो गृह्यन्ते, किंविशिष्टस्य सत इदमित्यत आहनिर्घृणमनसः, निर्घृणं निर्गतदयं मनः चित्तमन्तः करणं यस्य स निर्घृणमनास्तस्य, तदेव विशेष्यतेअधमविपाकमिति अधम: जघन्यो नरकादिप्राप्तिलक्षणो विपाकः परिणामो यस्य तत्तथाविधमिति गाथार्थः ॥१९॥
उक्तः प्रथमो भेदः, साम्प्रतं द्वितीयमभिधित्सुराह- पिसुणासब्भासन्भूयभूयघायाइवयणपणिहाणं । मायाविणोऽइसंधणपरस्स पच्छन्नपावस्स ||२०|| व्या० पिशुना ऽसभ्या- T-Sसद्भूतभूतघातादिवचनप्रणिधानमित्यत्रानिष्टस्य सूचकं पिशुनमनिष्टसूचकं 'पिशुनं सूचकं विदुः ' [ ] इति वचनात्, सभायां साधु सभ्यं न सभ्यमसभ्यं जकारमकारादि, न सद्भूतमसद्भूतमनृतमित्यर्थः, तच्च व्यवहारनयदर्शनेनोपाधिभेदतस्त्रिधा तद्यथा- अभूतोद्भावनं भूतनिह्नवोऽर्थान्तराभिधानं चेति, तत्राभूतोद्भावनं यथा सर्वगतोऽयमात्मेत्यादि, भूतनिह्नवस्तु नास्त्येवात्मेत्यादि, गामश्वमित्यादि ब्रुवतोऽर्थान्तराभिधानमिति, भूतानां सत्त्वानामुपघातो यस्मिन् तद्भूतोपघातं छिन्द्धि भिन्द्धि व्यापादय’ इत्यादि, आदिशब्दः प्रतिभेदं स्वगतानेकभेदप्रदर्शनार्थः, यथा पिशुनमनेकधाऽनिष्टसूचकमित्यादि, तत्र पिशुनादिवचनेष्वप्रवर्तमानस्यापि प्रवृत्तिं प्रति प्रणिधानं दृढाध्यवसानलक्षणम्, रौद्रध्यानमिति प्रकरणाद्गम्यते, किंविशिष्टस्य सत इत्यत आह- माया निकृतिः साऽस्यास्तीति मायावी, तस्य मायाविनो वणिजादेः, तथा अतिसन्धानपरस्य परवञ्चनाप्रवृत्तस्य, अनेनाशेषेष्वपि प्रवृत्तिमप्या (स्या ) ह, तथा प्रच्छन्नपापस्य कूटप्रयोगकारिणस्तस्यैव, अथवा धिग्जातिककुतीर्थिकादेरसद्भूतगुणं गुणवन्तमात्मानं ख्यापयतः, तथाहि- गुणरहितमप्यात्मानं यो गुणवन्तं ख्यापयति न तस्मादपरः प्रच्छन्नपापोऽस्तीति गाथार्थः ॥२०॥
उक्त द्वितीयो भेदः, साम्प्रतं तृतीयमुपदर्शयति- तह तिव्वकोहलोहाउलस्स भूओवघायणमणज्जं । परदव्वहरणचित्तं परलोयावायनिरवेक्खं ||२१|| व्या० तथाशब्दो दृढाध्यवसायप्रकारसादृश्योपदर्शनार्थः, तीव्रौ उत्कटौ तौ क्रोधलोभौ च तीव्रक्रोधलोभौ ताभ्यामाकुलः अभिभूतस्तस्य, जन्तोरिति गम्यते, किम् ? भूतोपहननमनार्यमिति हन्यतेऽनेनेति हननम्, उप सामीप्येन हननम् उपहननम्, भूतानामुपहननं भूतोपहननम्, आराद्यातं सर्वहेयधर्मेभ्य इत्यार्यम्, नाऽऽर्यमनार्यम्, किं तदेवंविधमित्यत आह- परद्रव्यहरणचित्तम्, रौद्रध्यानमिति गम्यते, परेषां द्रव्यं सचित्तादि तद्विषयं हरणचित्तं परद्रव्यहरणचित्तम्, तदेव विशेष्यते किम्भूतं तदित्यत आह- परलोकापायनिरपेक्षमिति, तत्र परलोकापायाः नरकगमनादयस्तन्निरपेक्षमिति गाथार्थः ॥ २१॥
उक्तस्तृतीयो भेदः, साम्प्रतं चतुर्थं भेदमुपदर्शयन्नाह - सद्दाइविसयसाहणधण
A-27
१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org