SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम्- टिप्पनानि गम्यते, तत्राभिष्वङ्गलक्षणो रागस्तेन रक्तस्य तद्भावितमूर्तेरिति गाथार्थः ॥८॥ उक्तस्तृतीयो भेदः, साम्प्रतं चतुर्थमभिधित्सुराह - देविंदचक्कवट्टित्तणाइ गुणरिद्धिपत्थणमईयं । अहमं नियाणचिंतणमण्णाणाणु गयमच्वंतं ॥९॥ व्या० दीव्यन्तीति देवाः भवनवास्यादयस्तेषामिन्द्राः प्रभवो देवेन्द्राः चमरादयः, तथा चक्रं प्रहरणं तेन विजयाधिपत्ये वर्तितुं शीलमेषामिति चक्रवर्तिनो भरतादयः, आदिशब्दाद्बलदेवादिपरिग्रहः अमीषां गुणऋद्धयः देवेन्द्रचक्रवर्त्यादिगुणर्द्धयः, तत्र गुणाः सुरूपादयः ऋद्धिस्तु विभूतिः, तत्प्रार्थनात्मकं तद्याच्ञायामयमित्यर्थः, किं तद् ? अधर्मं जघन्यं निदानचिन्तनं निदानाध्यवसायः, अहमनेन तपस्त्यागादिना देवेन्द्रः स्यामित्यादिरूपः, आह- किमितीदमधमम् ?, उच्यते यस्मादज्ञानानुगतमत्यन्तम्, तथा च नाज्ञानिनो विहाय सांसारिकेषु सुखेष्वन्येषामभिलाष उपजायते, उक्तं च अज्ञानान्धाश्चटुलवनितापाङ्गविक्षेपितास्ते, कामे सक्तिं दधति विभवाभोगतुङ्गार्जने वा । विद्वच्चित्तं भवति च महत् मोक्षकाङ्क्षैकतानं नाल्पस्कन्धे विटपिनि कषत्यंसभित्तिं गजेन्द्रः ॥ १ ॥ [ ] इति गाथार्थः ॥९॥ १४ आह- कथं पुनरोघत एवाऽऽर्त्तध्याता ज्ञायत इति ?, उच्यते, लिङ्गेभ्यः, तान्येवोपदर्शयन्नाहतस्सऽक्कंदणसोयणपरिदेवणताडणाई लिंगाई । इट्ठाणिट्ठविओगाविओगवियणानिमित्ताइं ॥ १५॥ व्या० तस्य आर्तध्यायिनः आक्रन्दनादीनि लिङ्गानि, तत्राऽऽक्रन्दनं महता शब्देन विरवणम्, शोचनं त्वश्रुपरिपूर्णनयनस्य दैन्यम्, परिदेवनं पुनः पुनः क्लिष्टभाषणम्, ताडनम् उरः शिरः कुट्टन - केशलुञ्चनादि, एतानि लिङ्गानि चिह्नानि, अमूनि च इष्टानिष्टवियोगावियोगवेदनानिमित्तानि, तत्रेष्टवियोगनिमित्तानि तथाऽनिष्टावियोगनिमित्तानि तथा वेदनानिमित्तानि चेति गाथार्थः || १५ || ” - ध्यानशतक० हारि० । [पृ०३१९] “किं चान्यत्- निंदइ य नियकयाइं पसंसइ सविम्हओ विभूईओ | पत्थे तासु रज्जइ तयज्जणपरायणो होइ ।। १६ ।। व्या० निन्दति च कुत्सति च निजकृतानि आत्मकृतानि अल्पफल-विफलानि कर्म - शिल्प - कला - वाणिज्यादीन्येतद् गम्यते, तथा प्रशंसति स्तौति बहु मन्यते सविस्मयः साश्चर्यः विभूती: परसम्पद इत्यर्थः, तथा प्रार्थयते अभिलषति परविभूतीरिति, तासु रज्यते ताविति प्राप्तासु विभूतिषु रागं गच्छति, तथा तदर्जनपरायणो भवति तासां विभूतीनामर्जने उपादाने परायण उद्युक्तः तदर्जनपरायण इति, ततश्चैवम्भूतो भवति, असावप्यार्तध्यायीति गाथार्थः ॥१६॥ सत्तवहवेहबंधणडहणंकणमारणाइपणिहाणं । अइकोहग्गहघत्थं निग्घिणमणसोऽहमविवागं ॥ १९ ॥ ।' व्या० सत्त्वा एकेन्द्रियादयः तेषां वध-वेध बन्धन - दहना-ङ्कनमारणादिप्रणिधानम्, तत्र वधः ताडनं करकशलतादिभिः, वेधस्तु नासिकादिवेधनं कीलिकादिभिः, बन्धनं संयमनं रज्जु-निगडादिभिः, दहनं प्रतीतमुल्मुकादिभिः, अङ्कनं लाञ्छनं श्व-शृगालचरणादिभिः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy