________________
प्रथमं परिशिष्टम्- टिप्पनानि
जिनानां ध्यानं यावन्तं च कालमेतद्भवत्येतदुपरिष्टाद्वक्ष्याम इति गाथार्थः ॥३॥" - ध्यानशतक० हारि०।
पृ०३१८] “अमणुण्णाणं सद्दाइविसयवत्थूण दोसमइलस्स। धणियं विओगचिंतणमसंपओगाणुसरणं च ॥६॥ व्या० अमनोज्ञानामिति मनसोऽनुकूलानि मनोज्ञानि इष्टानीत्यर्थः, न मनोज्ञानि अमनोज्ञानि, तेषाम्, केषामित्यत आह- शब्दादिविषयवस्तूनामिति, शब्दादयश्च ते विषयाश्च, आदिग्रहणाद्वर्णादिपरिग्रहः, विषीदन्ति एतेषु सक्ताः प्राणिन इति विषया इन्द्रियगोचरा वा, वस्तूनि तु तदाधारभूतानि रासभादीनि, ततश्च- शब्दादिविषयाश्च वस्तूनि चेति विग्रहस्तेषाम्, किम् ? सम्प्राप्तानां सतां धणियं अत्यर्थं वियोगचिन्तनं विप्रयोगचिन्तेति योगः, कथं नु नाम ममैभिर्वियोग: स्यादिति भावः ?, अनेन वर्तमानकालग्रहः, तथा सति च वियोगेऽसम्प्रयोगानुस्मरणम्, कथमेभिः सदैव सम्प्रयोगाभाव इति ?, अनेन चानागतकालग्रहः, चशब्दात् पूर्वमपि वियुक्तासम्प्रयुक्तयोर्बहुमतत्वेनातीतकालग्रह इति, किंविशिष्टस्य सत इदं वियोगचिन्तनाद्यत आह- 'द्वेषमलिनस्य' जन्तोरिति गम्यते, तत्राप्रीतिलक्षणो द्वेषस्तेन मलिनस्य तदाक्रान्तमूर्तेरिति गाथार्थः ॥६॥ ____ उक्तः प्रथमो भेदः, साम्प्रतं द्वितीयमभिधित्सुराह- तह सूलसीसरोगाइवेयणाए विजोगपणिहाणं। तदसंपओगचिंता तप्पडियाराउलमणस्स ॥७॥ व्या० तथेति धणियम् अत्यर्थमेव, शूलशिरोरोगवेदनाया इत्यत्र शूल-शिरोरोगौ प्रसिद्धौ, आदिशब्दात् शेषरोगातङ्कपरिग्रहः । ततश्च शूलशिरोरोगादिभ्यो वेदना शूलशिरोरोगादिवेदना, वेद्यत इति वेदना तस्याः, किम् ? वियोगप्रणिधानम्, वियोगे दृढाध्यवसाय इत्यर्थः, अनेन वर्तमानकालग्रहः, अनागतमधिकृत्याह- तदसम्प्रयोगचिन्तेति तस्याः वेदनायाः कथञ्चिदभावे सत्यसम्प्रयोगचिन्ताः, कथं पुनर्ममानया आयत्यां सम्प्रयोगो न स्यादिति ?, चिन्ता चात्र ध्यानमेव गृह्यते, अनेन च वर्तमानानागतकालग्रहणेनातीतकालग्रहोऽपि कृत एव वेदितव्यः, तत्र च भावनाऽनन्तरगाथायां कृतैव, किंविशिष्टस्य सत इदं वियोगप्राणिधानाद्यत आह- तत्प्रतिकारे वेदनाप्रतिकारे चिकित्सायामाकुलं व्यग्रं मनः अन्तःकरणं यस्य स तथाविधस्तस्य, वियोगप्रणिधानाद्यार्तध्यानमिति गाथार्थः ॥७॥ ___ उक्तो द्वितीयो भेदः, साम्प्रतं तृतीयमुपदर्शयन्नाह- इट्ठाणं विसयाईण वेयणाए य रागरत्तस्स। अवियोगऽज्झवसाणं तह संजोगाभिलासो य ॥८॥ व्या० इष्टानां मनोज्ञानां विषयादीनामिति विषया:पूर्वोक्ताः आदिशब्दाद् वस्तुपरिग्रहः, तथा वेदनायाश्च इष्टाया इति वर्तते, किम् ? अवियोगाध्यवसानमिति योगः, अविप्रयोगदृढाध्यवसाय इति भावः । अनेन वर्तमानकालग्रहः, तथा संयोगाभिलाषश्चेति तत्र 'तथेति' धणियमित्यनेनात्यर्थप्रकारोपदर्शनार्थः, संयोगाभिलाष:- कथं ममैभिर्विषयादिभिरायत्यां सम्बन्ध इतीच्छा, अनेन किलानागतकालग्रह इति वृद्धा व्याचक्षते, चशब्दात् पूर्ववदतीतकालग्रह इति, किंविशिष्टस्य सत इदमवियोगाध्यवसानाद्यत आह- रागरक्तस्य, जन्तोरिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org