________________
प्रथमं परिशिष्टम्- टिप्पनानि द्वे त्रिहस्ते, एका च चतुर्हस्ता, दैर्येण चतम्रोऽपि सार्धहस्तत्रयप्रमाणाश्चतुर्हस्ता वा मन्तव्याः । तत्र द्विहस्ता द्विहस्तविस्तृता सङ्घाटिका वसत्यां परिधीयते, न तां विहाय प्रकटदेहया कदाचिदासितव्यमिति भावः ॥४०८९।। दुनि तिहत्थायामा, भिक्खट्ठा एग एग उच्चारे । ओसरणे चउहत्थाऽनिसन्नपच्छाइणी मसिणा ॥४०९०॥ ये च द्वे त्रिहस्तायामे त्रिहस्तविस्तृते तयोर्मध्ये एका भिक्षार्थं गच्छन्त्या प्राव्रियते, एका उच्चारभूमिं व्रजन्त्या । तथा समवसरणे व्याख्यानश्रवणादौ गच्छन्ती चतुर्हस्तां प्रावृणोति, सा च प्राक्तनसङ्घाटीभ्यो बृहत्तरप्रमाणा अनिषण्णप्रच्छादनार्थं क्रियते; यतो न तत्र संयतीभिरुपवेष्टव्यम्, किन्तूर्द्धस्थिताभिरनुयोगश्रवणादि विधेयम्, ततस्तया स्कन्धादारभ्य पादौ यावद् वपुः प्रच्छाद्य तिष्ठन्ति। एताश्च पूर्वप्रावृतवेषप्रच्छादनार्थं प्रवचनवर्णप्रभावनार्थं च मसृणाः क्रियन्ते । चतम्रोऽपि च गणनाप्रमाणेनैकमेव रूपं गण्यते, युगपत् परिभोगाभावात् ॥४०९०॥" - बृहत्कल्पटीका ।
[पृ०३१७] “इत्थं ध्यानलक्षणमोघतोऽभिधायाधुना ध्यानमेव कालस्वामिभ्यां निरूपयन्नाहअंतोमुहुत्तमित्तं चित्तावत्थाणमेगवत्थुम्मि । छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु ॥३॥ व्या० इह मुहूर्तः सप्तसप्ततिलवप्रमाणः कालविशेषो भण्यते, उक्तं च- कालो परमनिरुद्धो अविभज्जो तं तु जाण समयं तु । समया य असंखेजा भवंति ऊसासनीसासा ॥१॥ हट्ठस्स अणवगल्लस्स, णिरुवकिट्ठस्स जंतुणो । एगे ऊसासनीसासे, एस पाणुत्ति वुच्चइ ॥२॥ सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे। लवाणं सत्तहत्तरीए, एस मुहुत्ते वियाहिए ॥३॥ [ ] अन्तर्मध्यकरणे, ततश्चान्तर्मुहूर्तमानं कालमिति गम्यते, मात्रशब्दस्तदधिककालव्यवच्छेदार्थः, ततश्च भिन्नमुहूर्तमेव कालम्, किम् ? चित्तावस्थानमिति चित्तस्य मनसः अवस्थानं चित्तावस्थानम्, अवस्थिति: अवस्थानम्, निष्प्रकम्पतया वृत्तिरित्यर्थः, क्व ? एकवस्तुनि एकम् अद्वितीयं वसन्त्यस्मिन् गुणपर्याया इति वस्तु चेतनादि, एकं च तद्वस्तु एकवस्तु तस्मिन् एकवस्तूनि छद्मस्थानां ध्यानमिति, तत्र छादयतीति छद्म पिधानं तच्च ज्ञानादीनां गुणानामावारकत्वाज्ज्ञानावरणादिलक्षणं घातिकर्म, छद्मनि स्थिताश्छद्मस्था अकेवलिन इत्यर्थः, तेषां छद्मस्थानाम्, ध्यानं प्राग्वत्, ततश्चायं समुदायार्थः- अन्तर्मुहूर्तकालं यच्चित्तावस्थानमेकस्मिन् वस्तुनि तच्छद्मस्थानां ध्यानमिति, योगनिरोधो जिनानां त्विति तत्र योगा:तत्त्वत औदारिकादिशरीरसंयोगसमुत्था आत्मपरिणामविशेषव्यापारा एव, यथोक्तम्- 'औदारिकादिशरीरयुक्तस्याऽऽत्मनो वीर्यपरिणतिविशेष: काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्य-समूहसाचिव्याज्जीवव्यापारो वाग्योगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो मनोयोगः' [ ] इति, अमीषां निरोधो योगनिरोधः, निरोधनं निरोधः, प्रलयकरणमित्यर्थः, केषाम् ?- जिनानां केवलिनाम्, तुशब्द एवकारार्थः स चावधारणे, योगनिरोध एव न तु चित्तावस्थानम्, चित्तस्यैवाभावाद्, अथवा योगनिरोधो जिनानामेव ध्यानं नान्येषाम्, अशक्यत्वादित्यलं विस्तरेण, यथा चायं योगनिरोधो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org