________________
प्रथमं परिशिष्टम्- टिप्पनानि हतावित्यस्तु लोकगीः ॥२१५॥ ततश्च भवचरमप्रत्याख्यानं विधाय सः । तां कङ्ककत्रिकां कण्ठे दत्वा सूरिर्व्यपद्यत ॥२१६॥" - परिशिष्टपर्वणि ॥
[पृ०३०७ पं०२५] कालशौकरिककथा योगशास्त्रस्वोपज्ञवृत्त्यादिषु वर्तते ।
[पृ०३१०] "सच्चा हिया सयामिह संतो मुणओ गुणा पयत्था वा । तव्विवरीआ मोसा मीसा जा तदुभयसहावा ॥३७६॥ अणहिमया जा तीसु वि सद्दो च्चिय केवलो असच्चमुसा। एया सभेयलक्खण सोदाहरणा जहा सुत्ते ॥३७७।। इह सद्भयो हिताऽऽराधिका यथावस्थितवस्तुप्रत्यायनफला च सत्या भाषा प्रोच्यते । तत्र के सन्त उच्यन्ते येषां सा हिता ?, इत्याह- सन्त इह मुनयः साधव उच्यन्ते, तेभ्यो हिता- इह-परलोकाराधकत्वेन मुक्तिप्रापिकेत्यर्थः, अथवा सन्तो मूलोत्तरगुणरूपा गुणाः, पदार्था वा जीवादयः प्रोच्यन्ते, तेभ्योऽसौ हिता अविपरीतयथावस्थितस्वरूपप्ररूपणेन सत्या । विपरीतस्वरूपा तु मृषाभाषाऽभिधीयते । मिश्रा तु सत्यामृषा । का ?, इत्याह- या तदुभयस्वभावा सत्या-मृषात्मिकेति। या पुनः सत्या-मृषोभयात्मकासूक्तलक्षणासु तिसृष्वपि भाषास्वनधिकृता तल्लक्षणानन्त विनी, आमन्त्रणाज्ञापनादिविषयो व्यवहारपतितः शब्द एव केवलः, साऽसत्यमृषा चतुर्थी भाषा । एताश्चतस्रोऽपि भाषाः सभेदाः सलक्षणाः सोदाहरणाश्च यथा दशवैकालिकसूत्र- निर्युक्त्यादिकसूत्रे आगमे भणितास्तथा तत्रैव बोद्धव्याः; इह तु भाषाद्रव्यग्रहण-निसर्गादिविचारस्यैव प्रस्तुतत्वात् ॥ इति गाथाद्वयार्थः ॥३७६३७७॥" - विशेषाव० मलधारि० ॥
[पृ०३११ पं०१२] ऋषभप्रभोः चरितं त्रिषष्टिशलाकापुरुषचरिते प्रथमे पर्वणि द्रष्टव्यम्, अन्येष्वपि ग्रन्थेषु वर्तते ।
[पृ०३११ पं०१४-१६] “राया आइच्चजसो महाजसे अइबले य बलभद्दे । बलविरिए कत्तविरिए जलविरिए दंडविरिए य ॥” - आव० नि० ३६३ । “अथ विश्वम्भराभारं सोढुर्भरतजन्मनः । राज्याभिषेकमकरोदादित्ययशसो हरिः ॥७४६।।'- त्रिषष्टि० १६।७४६॥ भरतादादित्ययशास्ततश्चासीद् महायसाः । अतिबलो बलभद्रो बलवीर्यस्ततोऽपि च ॥२५१॥ कीर्तिवीर्यो जलवीर्यो दण्डवीर्यस्ततोऽष्टमः। इत्यष्टौ पुरुषान् यावदाचारोऽयं प्रवृत्तवान् ॥२५२॥"- त्रिषष्टि० १।६।२५१-२५२॥ ।
[पृ०३११ पं०१७-२०] कण्डरीककथा ज्ञाताधर्मकथाङ्गसूत्रस्य प्रथमे श्रुतस्कन्धे एकोनविंशतितमेपुण्डरीकज्ञातेऽध्ययने अन्यत्रापि च बहुषु ग्रन्थेषु वर्तते ।
“सिंहगिरि-वज्रस्वामि-शय्यम्भव-यशोभद्र-भद्रबाहुस्वामि-स्थूलभद्रचरितं परिशिष्टपर्वणि वर्तते ग्रन्थान्तरेषु च । कूलवालकचरितं त्रिषष्टिशलाकापुरुषचरिते दशमे पर्वणि वर्तते ॥
(पृ०३१६] “वेगच्छिया य पट्टो, कंचुकमुक्कच्छियं च छादेति । संघाडीओ चउरो, तत्थ दुहत्था उ वसधीए ॥४०८९॥ औपकक्षिकीविपरीतो वैकक्षिकीनामकः पट्टः कञ्चकमौपकक्षिकी च छादयन् वामपार्श्वे परिधीयते । तथोपरि परिभोग्याः सयाटिकाश्चतस्रो भवन्ति- एका द्विहस्ता,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org