________________
प्रथमं परिशिष्टम्- टिप्पनानि सत्त्रशाला-पौषधागारभूषितम् । भूभुजा तदलञ्चक्रे शुभेऽयुत्सवपूर्वकम् ॥१८३॥ युग्मम् ॥ राजा तत्राकरोद्राज्यमुदाय्युदयभाक् श्रिया । स्वं विक्रममिवाखण्डं तन्वानो धर्ममार्हतम् ॥१८४।। अर्हन्देवो गुरुः साधुर्धर्मश्चार्हत इत्यभूत् । देवतत्त्वं गुरुतत्त्वं धर्मतत्त्वं च तद्धृदि ॥१८५॥ चतुष्पर्ध्या चतुर्थादितपसा स्वं विशोधयन् । पौषधं पौषधागारे स जग्राह महामनाः ॥१८६॥ स धर्माबांधया क्षात्रमपि तेजः प्रभावयन् । आत्मनः सेवकांश्चक्रे तुर्योपायेन भूपतीन् ॥१८७॥ राजानोऽत्यन्तमाक्रान्तास्ते तु सर्वेऽप्यचिन्तयन् । यावज्जीवत्युदाय्येष तावद्राज्यसुखं न नः ॥१८८।। इतश्च राज्ञ एकस्यागसि कस्मिंश्चिदागते । आच्छेद्युदायिना राज्यं प्राज्यविक्रमवज्रिणा ॥१८९॥ आच्छिन्नराज्यो राजा स नश्यन्नेव व्यपद्यत । तत्सूनुरेकस्तु परिभ्रमन्नुज्जयिनीं ययौ ॥१९०॥ राज्यभ्रष्टकुमारस्तु सोऽवन्तीशमसेवत । अभूदसहनो नित्यमवन्तीशोऽप्युदायिनः ॥१९१॥ स सेवको राजपुत्रस्तं राजानं व्यजिज्ञपत् । उदायिनमहं देव साधयामि त्वदाज्ञया ॥१९२।। त्वया तु मे द्वितीयेन भाव्यमव्यभिचारिणा । को हि प्राणांस्तृणीकृत्य साहसं कुरुते मुधा ॥१९३।। तथेति प्रतिपेदानेऽवन्तिनाथे स राजसूः । जगाम पाटलीपुत्रं सेवकोऽभूदुदायिनः ॥१९४॥ उदायिनृपतेर्नित्यं छिद्रमालोकयन्नपि । व्यन्तरो मान्त्रिकस्येव दुरात्मा नाससाद सः ॥१९५।। उदायिनस्तु परमार्हतस्यौकसि सर्वदा । अस्खलद्गमनाङ्जैनमुनीनेव ददर्श सः । उपाददे परिव्रज्यां सूररेकस्य सन्निधौ ॥१९७॥ माययाप्यनतीचारं स व्रतं पालयन्मुनीन् । तथा ह्याराधयत्ते हि यथा तन्मयतां ययुः ॥१९८॥ दम्भप्रधानं श्रामण्यं न तस्यालक्षि केनचित् । सुप्रयुक्तस्य दम्भस्य ब्रह्माप्यन्तं न गच्छति ॥१९९॥ उदायी त्वाददेऽष्टम्यां चतुर्दश्यां च पौषधम् । अवात्सुः सूरयो धर्मकथार्थं च तदन्तिके ॥२००॥ अन्यदा पौषधदिने विकाले ते तु सूरयः । प्रति राजकुलं चेलुर्मायावी यैः स दीक्षितः ॥२०१।। गृह्यतामुपकरणं यामो राजकुले वयम् । भोः क्षुल्लकेत्यभिदधुः ससंरम्भं च सूरयः ॥२०२।। स एव मायाश्रमण: कुर्वाणो भक्तिनाटितम्। उपादायोपकरणान्यग्रेऽभूच्छललिप्सया ॥२०३।। चिरसङ्गोपितां कङ्कमयीमादाय कर्बिकाम् । प्रच्छन्नां धारयामास स जिघांसुरुदायिनम् ॥२०४।। चिरपवजितस्यास्य शमः परिणतो भवेत । इति तेनैव सहितः सरी राजकलं ययौ ॥२०५॥ धर्ममाख्याय सुषुपुः सूरयः पार्थिवोऽपि हि । स्वाध्यायखिन्नः सुष्वाप प्रतिलिख्य महीतलम् ॥२०६॥ दुरात्मा जाग्रदेवास्थात्स मायाश्रमणः पुनः । निद्रापि नैति भीतेव रौद्रध्यानवतां नृणाम् ॥२०७॥ स मायाश्रमणो राज्ञः सुप्तस्य गलकन्दले । तां कर्चिकां लोहमयीं यमजिह्वोपमां न्यधात् ॥२०८॥ कण्ठो राज्ञस्तयाऽकर्ति कदलीकाण्डकोमलः । निर्ययौ च ततो रक्तं घटकण्ठादिवोदकम् ॥२०९॥ कायचिन्तामिषेणाथ स पापिष्ठस्तदैव हि । निर्जगाम यतिरिति यामिकैरप्यजल्पितः ॥२१०॥ राज्ञस्तेनासृजा सिक्ताः प्रबुद्धाः सूरयोऽपि हि । मूर्धानं ददृशुः कृत्तं निर्नालकमलोपमम् ॥२११।। सूरिस्तं व्रतिनं तत्रापश्यन्निदमचिन्तयत् । नूनं तस्यैव कर्मैतद् व्रतिनो यो न दृश्यते ॥२१२॥ किमकृत्यमकार्षी रे धर्माधारो महीपतिः । यद् व्यनाश्यथ मालिन्यं कृतं प्रवचनस्य च ॥२१३॥ मयेदृग्दीक्षितो दृष्टोऽत्रानीतश्च महात्मना । तन्मत्कृतं प्रवचनमालिन्यमिदमागतम् ॥२१४॥ तदहं दर्शनम्लानिं रक्षाम्यात्मव्ययादहम् । राजा गुरुश्च केनापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org