________________
प्रथमं परिशिष्टम् - टिप्पनानि
अपूर्वकरणक्रमात् । केवलज्ञानमुत्पेदे निदानं मुक्तिसम्पदः || १५१॥ युग्मम् ॥ पुष्पचूला तु सञ्जातकेवलापि विशेषतः । वैयावृत्यं गुरौश्चक्रे प्रोक्तो ह्यर्थोऽयमागमे ॥ १५२ ॥ पुरा ह्यभूत्प्रयुञ्जानः कृत्यं यो यस्य तस्य सः । केवल्यपि च कुर्वीत स यावद्वेत्ति तं न हि ॥ १५३ ॥ पुष्पचूला तु विज्ञाय केवलज्ञानसम्पदा । सर्वं सम्पादयाञ्चक्रे सूरिर्यद्यदचिन्तयत् ॥ १५४॥ | सूरिः पप्रच्छ तां साध्वीं वत्से वेत्सि कथं नु । ममाभिप्रायमेवं यत्सम्पादयसि चिन्तितम् || १५५ || उवाच पुष्पचूलापि प्रकृतिं वेद्मि वः खलु । यो यस्य नित्यमासन्नः प्रकृतिज्ञो हि तस्य सः ॥ १५६ ॥ सार्यिका पिण्डमानिन्येऽन्यदा वर्षति वारिदे । सूरिरूचे श्रुतज्ञासि वृष्ट्यां किमिदमर्हति ॥ १५७ ॥ साऽब्रवीद्यत्र मार्गेऽभूदप्कायोऽचित्त एव हि । तेनैवायासिषमहं प्रायश्चित्तागमो न ॥ १५८ ॥ अचित्ताप्कायमध्वानं कथं वेत्सीति सूरिणा । उदिते पुष्पचूलाख्यदुत्पन्नं मेऽस्ति केवलम् ॥ १५९ ॥ मिथ्या मे दुःकृतं केवल्याशातित इति ब्रुवन् । इत्यचिन्तयदाचार्यः सेत्स्यामि किमहं न वा ॥ १६०॥ केवल्यूचे मा कृषीवमधृतिं मुनिपुङ्गवाः । गङ्गामुत्तरतां वोऽपि भविष्यत्येव केवलम् ॥१६१ ॥ ततो गङ्गामुत्तरीतुं लोकेन सह सूरयः । तदैवारुरुहुर्भावं को हि स्वार्थमुपेक्षते ॥१६२ || निषसाद स आचार्यो यत्र यत्रापि नौटे । तत्र तत्र तटे सद्यः सा नौर्मङ्क्तुं प्रचक्रमे ॥१६३॥ नौमध्यदेशासीने च तस्मिन्नाचार्यपुङ्गवे । समन्तान्मतुमारेभे सा नौर इवाम्भसि ॥१६४॥ ततो नौस्थितलोकेन सूरिः सोऽक्षेपि वारिणि । शूले न्यधात्प्रवचनप्रत्यनीकामरी च तम् ॥१६५॥ शूलप्रोतोऽपि गङ्गान्तः सूरिरेवमचिन्तयत् । अहो वपुर्ममानेकप्राण्युपद्रवकारणम् ॥१६६॥ अप्कायादिदयासारं स सूरिर्भावयन्भृशम् । क्षपकश्रेणिमारूढोऽन्तकृत्केवल्यजायत ॥ १६७॥ तुरीयशुक्लध्यानस्थः सद्यो निर्वाणमाप सः । निर्वाणमहिमानं च तस्यासन्नाः सुरा व्यधुः || १६८ ॥ निर्वाणमहिमा तत्र देवैर्निर्मित इत्यभूत् । प्रयाग इति तत्तीर्थं प्रथितं त्रिजगत्यपि ॥१६९॥ करोटिरन्निकासूनोर्यादोभिर्मकरादिभिः । त्रोट्यमाना नदीतीरमानीयत जलोर्मिभिः ॥ १७० ॥ इतस्ततो लुलन्ती च शुक्तिकेव नदीतटे । प्रदेशे गुप्तविषमे तस्थौ क्वापि विलग्य सा ।। १७१ || करोटिकर्परस्यान्तस्तस्यान्यस्मिंश्च वासरे । न्यपतत्पाटलाबीजं दैवयोगेन केनचित् ॥ १७२ ॥ करोटिकर्परं भिन्दंस्तदीयाद्दक्षिणाद्धनो: । उद्गतः पाटलितरुर्विशालोऽयमभूत्क्रमात् ॥ १७३ ॥ | पाटालानुः पवित्रोऽयं महामुनिकरोटिभूः । एकावतारोऽस्य मूलजीवश्चेति विशेषतः || १७४ ॥ तदत्र पाटलितरोः प्रभावमवलम्ब्य च । दृष्ट्वा चाषनिमित्तं च नगरं सन्निवेश्यताम् ॥ १७५ ॥ एको नैमित्तिकश्चोचे सर्वनैमित्तिकाज्ञया । दातव्यमाशिवाशब्दं सूत्रं पुरनिवेशने ॥ १७६ ॥ प्रमाणं यूयमित्युक्त्वा तान्निमित्तविदो नृपः । अधिनगरनिवेशं सूत्रपातार्थमादिशत् ॥१७७॥ पाटलीं पूर्वतः कृत्वा पश्चिमां तत उत्तराम् । ततोऽपि च पुनः पूर्वां ततश्चापि हि दक्षिणाम् || १७८ | शिवाशब्दावधिं गत्वा तेऽथ सूत्रमपातयन् । चतुरस्रः सन्निवेशः पुरस्यैवमभूत्तदा ॥ १७९ ॥ युग्मम् ॥ तत्राङ्किते भूप्रदेशे नृपः पुरमकारयत् । तदभूत्पाटलीनाम्ना पाटलीपुत्रनामकम् ॥१८०॥। पुरस्य तस्य मध्ये तु जिनायतनमुत्तमम् । नृपतिः कारयामास शाश्वतायतनोपमम् ॥१८१॥ गजाश्वशालाबहुलं नृपप्रासादसुन्दरम् । विशालशालमुद्दामगोपुरं सौधबन्धुरम् ॥१८२॥ पण्यशाला
Jain Education International
For Private & Personal Use Only
९
www.jainelibrary.org