________________
प्रथमं परिशिष्टम्- टिप्पनानि चानिकापुत्रं राजापृच्छत्तदेव हि । नरकान्स तथैवाख्यद् दृष्टाः स्वप्ने यथा तया ॥१२०॥ राज्यप्युवाच भगवन्किं भवद्भिरपीदृशः। मयेव वीक्षितः स्वप्नो वित्थेत्थं कथमन्यथा ॥१२१॥ सूरिः प्रोवाच हे भद्रे विनापि स्वप्नदर्शनम्। संसारे नास्ति तद्यद्धि न ज्ञायेत जिनागमात् ॥१२२।। पुष्पचूलापि पप्रच्छ भगवन् ! केन कर्मणा । ईदृशान्नरकान्घोरानाप्नुवन्ति शरीरिणः ॥१२३।। आख्याति स्मानिकापुत्रो महारम्भपरिग्रहैः । गुरुप्रत्यनीकतया पञ्चेन्द्रियवधादपि ॥१२४॥ पिशिताहारतश्चापि पापं कृत्वा शरीरिणः। गच्छन्ति नरकेष्वेषु दुःखान्यनुभवन्ति च ॥१२५॥ ततश्च जननीजीवदेवस्तस्यास्तदादि तु । स्वप्ने नरकवत्स्वर्गान्प्राज्यसौख्यानदर्शयत् ॥१२६॥ प्रबुद्धा कथयामास सा पत्ये स्वर्गदर्शनम् । सोऽथ पाषण्डिनोऽपृच्छद् ब्रूथ किं स्वर्गलक्षणम् ।।१२७॥ तेष्वेके प्रोचिरे स्वर्गस्वरूपं प्रियसङ्गमः । अन्ये त्वाहुः स्म स स्वर्गो यद्यद्धि सुखकारणम् ।।१२८॥ एवं स्वर्गस्वरूपं च तदुक्तं पुष्पचूलिका । नामन्यत स्वप्नदृष्टस्वःस्वरूपा हि साभवत् ॥१२९॥ राज्ञा पृष्टोऽनिकासूनुः स्थितिमाख्यद्दिवौकसाम् । मनश्चिन्तितकार्याणि सिद्धान्येव भवन्ति च ॥१३०॥ सकल्पवृक्षाश्चारामा वापयः स्वर्णपङ्कजाः । देव्यश्चित्तानुवर्तिन्यो रूपवत्यः कलाविदः ॥१३१॥ यथादिष्टविधातारस्त्रिदशाश्चाभियोगिकाः । इच्छया दिव्यसङ्गीतनाटकाभिनयोत्सवाः ॥१३२।। शाश्वतेषु विमानेषु रम्यरत्नगृहाणि च । सर्वशक्तिभृतो नित्यं परिवारे च नाकिनः ॥१३३।। चतुर्भिः कलापकम्॥ आनुत्तरविमानं यद्यद् व्यन्तरपुरावधि । सुखं किमपि देवानां तत्कियत्कथ्यते गिरा ॥१३४॥ तच्छ्रुत्वा पुष्पचूलोचे यूयं वित्थ यदीदृशम् । स्वर्गा युष्माभिरपि किं स्वप्ने ददृशिरेऽखिलाः ॥१३५।। मुनिर्जगाद कल्याणि जिनागमसुधापिबाः । स्वःसुखानि वयं विद्मो विद्मो ज्ञेयान्तराण्यपि ॥१३६॥ प्रमाणं वचनं जैनमिति निश्चित्य राज्यथ । ऋषि पप्रच्छ भगवन् स्वर्गाप्तिः केन कर्मणा ॥१३७॥ सूरिरूचेऽर्हति देवे गुरौ साधौ च निश्चयः । यस्य संसारिणस्तस्य स्वर्गाप्तिर्न दवीयसी ॥१३८॥ पुनश्चारित्रधर्मे च मुनिना कथिते सति । सा राज्ञी लघुकर्मत्वाद्भवोद्विग्नैवमभ्यधात् ॥१३९।। भगवन्पतिमापृच्छ्य पादमूले तवैव हि । उपादास्ये परिव्रज्यां मानुष्यकतरोः फलम् ॥१४०॥ इत्युक्त्वा तमृषिं नत्वा पुष्पचूला विसृज्य च । आपप्रच्छे महीनाथं महीनाथोऽप्यदोऽवदत् ॥१४१॥ तदा त्वामनुमन्येऽहं व्रतार्थं वरवर्णिनि । ममैवौकसि चेद्भिक्षामादत्से व्रतिनी सती ॥१४२॥ तथेति प्रतिपेदाना दानं कल्पलतेव सा। अर्थिभ्यो ददती राज्ञा कृतनिष्क्रमणोत्सवा ॥१४३॥ स्त्रीचूलामणितां प्राप्ता पुष्पचूला महाशया । अनिकापुत्रपादान्ते गत्वा दीक्षामुपाददे ॥१४४॥ युग्मम् ॥ गुर्वादेशाध्वपथिकी सा शिक्षामाददेऽखिलाम् । सामाचारीप्रधानं हि तपः शुद्धात्मनामपि ॥१४५।। ज्ञात्वा भविष्यदुर्भिक्षमन्निकासूनुनान्यदा । गच्छो देशान्तरे प्रैषि स देशो यत्र जीव्यते ।।१४६।। द्वादशाब्दकमशिवं भावीति श्रुतसम्पदा । ज्ञात्वा गुरूपदेशाच्च गच्छोऽगच्छदथान्यतः ॥१४७।। जङ्घाबलपरिक्षीणास्तत्रैवास्थुस्तु सूरयः । विनापि हि परीवारमूरीकृतपरीषहाः ॥१४८॥ आनीयान्तःपुराद्भक्तपानादि प्रतिवासरम् । गुरवे पुष्पचूलादात्पित्रे पुत्रीव भक्तिभाक् ॥१४९॥ अनन्यमनसस्तस्या गुरूणां पर्युपासनात् । भावयन्त्याश्च संसारासारतामेव सर्वदा ॥१५०॥ अन्येद्युः पुष्पचूलाया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org