________________
प्रथमं परिशिष्टम्- टिप्पनानि
वर्धमानोऽन्निकासुतः । चतुर्वर्गार्जनसुखं प्रपेदे मध्यमं वयः ॥ ८८ ॥ भोगानपास्य तृणवद्यौवनेऽपि स धीधनः । जयसिंहाचार्यपार्श्वे परिव्रज्यामुपाददे ॥ ८९ ॥ स खड्गधारातीक्ष्णेन व्रतेन व्रतिनां वरः । आत्मनो दारयामास दारुणान्कर्मकण्टकान् ॥ ९० ॥ तपोग्निनातिदीप्रेण दग्ध्वा कर्ममहामलम् । अग्निशौचांशुकमिव स आत्मानमशोधयत् ॥ ९१ ॥ स क्रमेण परिणतचरित्रज्ञानदर्शनः । आचार्यवर्यधुर्योऽभूत्स्वगच्छाम्भोजभास्करः || ९२|| स मुनिः सपरीवारो वृद्धत्वे विन् । पुष्पभद्राख्यं गङ्गातटविभूषणम् ॥९३॥ तत्राभूद्भूपतिः पुष्पकेतुस्तस्य तु वल्लभा । मीनकेतोरिव रतिः पुष्पवत्यभिधानतः ॥९४॥ पुष्पवत्या अभूतां च पुत्रः पुत्री च युग्मजौ । पुष्पचूलः पुष्पचूला चेति नाम तयोरभूत् ॥ ९५ ॥ सहैव वर्धमानौ तौ रममाणौ सहैव च । परस्परं प्रीतिमन्तावुभावपि बभूवतुः ॥ ९६ ॥ द्यौ च राजा यद्येतौ दारकौ स्नेहलौ मिथः । वियुज्येते तदा नूनं मनागपि न जीवतः ॥९७॥ वियोगमनयोश्चाहमपि सोढुमनीश्वरः । मिथस्तदनयोरेव युक्तं वीवाहमङ्गलम् ॥९८॥ मित्राणि मन्त्रिणः पौरानथ पप्रच्छ भूपतिः । अन्तःपुरे यदुत्पन्नं रत्नं तस्य क ईश्वरः ॥ ९९ ॥ ते प्रोचुर्देशमध्येऽपि रत्नमुत्पद्यते हि यत् । तस्येश्वरो नरपतिः का कथान्तःपुरे पुनः || १०० || यद्यदुत्पद्यते रत्नं स्वदेशे तदिलापतिः । यथेच्छं विनियुञ्जीत को हि तस्यास्तु बाधकः ॥ १०१ ॥ तेषां भावानभिज्ञानामालम्ब्य वचनं नृपः । सम्बन्धं घटयामास निजदारकयोस्तयोः ॥ १०२ ॥ तस्य राज्ञी पुष्पवती श्राविकाभूत्तया नृपः । अवार्यत तथा कुर्वन्न तु तामप्यजीगणत् ॥ १०३ ॥ ततश्च पुष्पचूलश्च पुष्पचूला च दम्पती । गृहिधर्मं सिषेवाते नितान्तमनुरागिणौ ॥ १०४ ॥ क्रमेण पुष्पकेतौ तु कथाशेषत्वमीयुषि । पुष्पचूलोऽभवद्राजा राजमानोऽमलैर्गुणैः ॥ १०५ ॥ तदकृत्यं वारयन्ती तदा पत्यापमानिता । राज्ञी पुष्पवती जातनिर्वेदा व्रतमाददे ॥ १०६ ॥ सा विपद्य सुरो जज्ञे प्रव्रज्यायाः प्रभावतः । प्रव्रज्या चेन्न मोक्षाय तत्स्वर्गाय न संशयः ॥ १०७॥ स देवोऽवधिनाद्राक्षीत्तामकृत्यनियोजिताम् । निजां दुहितरं स्नेहादिति चाचिन्तयत्तराम् ॥ १०८ ॥ मम प्राग्जन्मनि प्राणप्रियेयं दुहिताभवत् । तत्तथा रवै घोरे नरके न पतेद्यथा ॥१०९॥ इति तस्याः स्वप्नमध्ये नरकावासदारुणान् छेदभेदादिदुःखार्त्तारटन्नारकिकाकुलान् ॥११०॥ पातकेनेव संरुद्धानन्धकारापदेशतः । दुर्दर्शान्दर्शयामास नरकान्स सुरोऽखिलान् ॥ १११॥ युग्मम् ॥ वर्तिकेव श्येनमुक्ता मृगीव दवनिर्गता । सतीव परपुरुषकरस्पर्शपलायिता ॥ ११२ ॥ सुसाध्वीवायाततपोऽतीचारविधुरीकृता । सा दृष्टनरका भीत्या प्रबुद्धापि कम्पत ॥११३॥ युग्मम् || बिभ्यती सा तु नरकं गतेव नरकेक्षणात् । अखिलं कथयामास तं स्वप्नं पत्युरग्रतः ॥११४॥ क्षेमेच्छुः पुष्पचूलायाः पुष्पचूलनृपोऽपि हि । निपुणं कारयामास शान्तिकं शान्तिकोविदैः ।।११५।। स तु पुष्पवतीजीवदेवस्तद्धितकाम्यया । तादृशानेव नरकान्रात्रौ रात्रावदर्शयत् ॥११६|| अथ पाषण्डिनः सर्वानाजुहाव महीपतिः । परिपप्रच्छ च ब्रूध्वं कीदृशा नरका इति ॥११७॥ गर्भवासौ गुप्तिवासो दारिद्र्यं परतन्त्रता । एते हि नरकाः साक्षादित्याख्यंस्तेऽल्पमेधसः ॥ ११८ ॥ सा दुर्गन्धमिवाघ्राय कुर्वती मुखमोटनम् । निजस्वप्नविसंवादिवचनांस्तान्व्यसर्जयत् ॥११९॥ आहूय
I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org