________________
प्रथमं परिशिष्टम्- टिप्पनानि
वेत्स्येष यादृशः ॥५५॥ स उवाच कुलीनोऽयं कालज्ञोऽयं सुधीरयम् । युवायं किं बहूक्तेन सर्वे वरगुणा इह || ५६ ॥ किं तु जामिं प्रदास्यामि तस्मै यो मद्गृहात् क्वचित् । न यास्यति स्थितं चात्र तं द्रक्ष्याम्यात्मनः समम् ॥ ५७ ॥ एष सम्भाव्यते यास्यन्नद्य श्वो वापि सुन्दरः । किं नाश्रौषुर्विदेशस्थः प्रायेण हि गमिष्यति ॥५८॥ प्राणप्रियेयं भगिनी मम लक्ष्मीरिवौकसि । तदिमां न प्रहेष्यामि विवोढुरपि वेश्मनि ॥५९॥ अपत्यजन्मावधि भो यद्येवं कर्तुमीश्वरः । तदुद्वहतु मे जामिं देवदत्तोऽन्निकामिमाम् ॥६०॥ देवदत्तानुज्ञया तेऽप्योमिति प्रतिपेदिरे । देवदत्तोऽपि तां कन्यां परिणिन्ये शुभे ॥ ६१ ॥ तस्यान्निकाप्रेमतन्तुबद्धस्य तिष्ठतः । प्रेष्युदग्मथुरास्थाभ्यां पितृभ्यां लेख ईदृशः ॥६२॥ आवां हि चक्षुर्विकलौ चतुरिन्द्रियतां गतौ । जराजर्जरसर्वाङ्गावासन्नयमशासनौ ||६३ || आयुष्मन्यदि जीवन्तौ कुलीनस्त्वं दिदृक्षसे ।तदेद्वापय दृशावावयो रुदतोः सतोः ||६४ || युग्मम् ॥ सोऽवाचाच्च तं लेख स्नेहाम्भोधिनिशाकरम् । निरन्तरक्षरन्नेत्रनीरपात्रीचकार च ॥ ६५ ॥ अचिन्तयच्च धिग्धिग्मां पितरौ विस्मृतौ हि मे । अहं विषयमग्नोऽस्मि पित्रोः पुनरियं दशा ||६६ || किं करोमि कथं यामि पत्नी नापत्यदृश्वरी । निजवाक्पाशबद्धस्य का गतिर्मे भविष्यति ||६७ || अन्निकापि हि तन्त्रमार्जनेन स्वमंशुकम् । क्लेदयन्ती जगादैवं सद्यस्तदुःखदुःखिता ॥ ६८ ॥ केनैष प्रहितो लेखो धत्ते चान्द्रमसीं कलाम् । द्रावयन्वारिदुर्वारं त्वन्नेत्रचन्द्रकान्तयोः ॥६९॥ दिवेन्दुनिभमालोक्य निष्कलापं मुखं तव । निश्चिनोम्यश्रुपूरोऽयं दुःखजो न तु हर्षजः ||७०|| दुःखाख्यानप्रसादेन तत्सम्भावय मामपि । ममाप्यस्तु भवदुःखसंविभागधुरीणता ॥७१॥ नादात्प्रत्युत्तरं किञ्चिद्दुःखभागन्निकापतिः । तस्थौ तु स्नपयन्नेव तं लेखं नयनोदकैः ॥७२॥ अन्निकापि हि तं लेखमादायावाचयत्स्वयम् । तदुःखकारणं सद्यो विवेद च जगाद च ||७३ || सर्वथा मा कृथा दुःखमार्यपुत्राचिरादहम् । भ्रातरं बोधयिष्यामि कारयिष्ये त्वदीप्सितम् ॥७४॥ गत्वा चोचे भ्रातरं स्वं नितरां कुपितेव सा । इदं विवेकिन् हे भ्रातर्भवता किमनुष्ठितम् ||७५|| स्वकुटुम्बवियोगेन क्लिश्यते तव भावुकः । श्वश्रूश्वशुरपादानामहमुत्कण्ठितास्मि च ॥ ७६ ॥ अनुमन्यस्व मे नाथं स्वस्थानगमनं प्रति । तमन्वेष्याम्यहमपि तस्यायत्ता यतोऽसवः ॥ ७७॥ स्थास्यत्येवैष वाग्बद्धः प्रणन्तुं श्वसुरौ त्वहम् । एकाकिन्यपि यास्यामि किं कार्यं तदनेन ते ॥ ७८ ॥ इति साग्रहमुक्तस्तु जयसिंहो मुहुर्मुहुः । प्रयातुमनुमेने च तमुदग्मथुरां प्रति ॥७९॥ | नगर्या निर्ययौ तस्यास्ततश्च स वणिक्सुतः । तमन्वगादन्निकापि यामिनीव निशाकरम् ||८०|| अन्निकाभूत्तदा गुर्वी नेदीयः प्रसवापि च । इति मार्गेऽपि सासू सुतं लक्षणधारिणम्॥८१॥ स्थविरौ पितरौ नामकृतिं सूनोः करिष्यतः । इति तौ दम्पती नैव चक्रतुः स्वमनीषया ॥८२॥ तयोरन्वङ् परिजनस्तं बालं लालयन्मुदा । अन्निकापुत्र इत्येवोल्लापनेन जगौ पथि॥८३॥ उत्तरामन्निकानाथो जगाम मथुरामथ । तौ ववन्दे च पितरौ ताभ्यां मूर्धन्यचुम्बि च ॥८४॥. देशान्तरोपार्जनेयं ममोपादीयतामिति । ब्रुवाणः सोऽर्भकं पित्रोरर्पयामास हृष्टयोः ॥ ८५ ॥ इयं वधूर्वः पुत्रोऽहं ममैमत्कुक्षिसम्भवः । इत्याचख्यौ च सम्बन्धं भक्तिबन्धुरया गिरा ॥ ८६ ॥ पितरौ चक्रतुस्तस्य शिशोः सन्धीरणाभिधाम् । अन्निकापुत्र इति तु लोकनाम्ना स पप्रथे ॥ ८७|| लाल्यमानः कुटुम्बेन
६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org