________________
प्रथमं परिशिष्टम्- टिप्पनानि
च कुलामात्यानमुष्मिन्नगरेऽखिले । पश्यतो मे पितुः क्रीडास्थानानि व्यथते मनः ॥२४॥ इयं हि सैव परिषद्यस्यां तातः क्षणे क्षणे । सिंहासनमसे विष्ट मामकादपरित्यजन् ||२५|| अभुक्तेहाक्रीडदिहारस्तेहाशेत चेह यत् । पिता ममेति पश्यामि तं सर्वत्र जलेन्दुवत् ||२६|| पश्यतस्तातपादान्मे दृशोरग्रे स्थितानिव । राज्यलिङ्गभृतः सातिचारं स्याद्विनयव्रतम् ||२७|| पिता हृदि स्थितो नित्यमिहस्थस्येति मे सुखम् । सदा शल्यमिवास्तोकः शोको दुःखाकरोति च ॥ २८ ॥ अमात्या अपि तेऽत्याप्ता बहुदृष्टा बहुश्रुताः । शोकशङ्कुच्छिदा प्रोचुर्वाचा वाचंयमा इव ||२९|| कस्य नेष्ट वियोगेन शोकः स्याद्भवता पुनः । भुक्तान्नवत् स जार्यो हि लज्जा स्यादन्यथा तव ||३०|| यद्वा स्याच्छोक एवेह नगरे वसतस्तव । तदन्यन्नगरं क्वापि निवेशय विशाम्पते ||३१|| पुरा पुरं राजगृहं कूणिकोऽपि पिता तव । हित्वा पितृशुचाऽकार्षीदिमां चम्पाभिधां पुरीम् ||३२|| उदाय्यपि समाहूय नैमित्तिकवरानथ । स्थानं पुरनिवेशार्हं गवेषयितुमादिशत् ||३३|| तेऽपि सर्वत्र पश्यन्तः प्रदेशानुत्तरोत्तरान् । ययुर्गङ्गातटे रम्ये दृशां विश्रामधामनि ||३४|| ते तत्र ददृशुः पुष्पपाटलं पाटलिद्रुमम्। पत्रलं बहुलच्छायमातपत्रमिवावनेः ||३५|| अहो उद्यानबाह्योऽपि सकलापोऽयमंहिपः। इत्थं चमत्कृतास्तत्र तेऽद्राक्षुश्चापक्षिणम् ||३६|| शाखानिषण्णः स खगो व्याददौ वदनं मुहुः । कवलीभवितुं तत्र निपेतुः कीटिकाः स्वयम् ||३७|| तेऽचिन्तयन्निहोद्देशे पक्षिणोऽस्य यथा मुखे । कीटिकाः स्वयमागत्य निपतन्ति निरन्तरम् ||३८|| तथास्मिन्नुत्तमे स्थाने नगरेऽपि निवेशिते । राज्ञः पुण्यात्मनोऽमुष्य स्वयमेष्यन्ति सम्पदः ||३९|| इति निर्णीय तत्स्थानं नगरार्हं महीपतेः । आख्यान्ति स्म विवृण्वन्तो निमित्तं चाषलक्षणम् ||४०|| जरन्नैमित्तिकश्चैको जगाद वदतां वरः । पाटलेयं न सामान्या ज्ञानिना कथिता पुरा ॥ ४१ ॥ तथाहि स्तो नगर्यो द्वे मथुरे दक्षिणोत्तरे । समानसौन्दर्य स्वसारौ युग्मजे इव ॥४२॥ अभूदुदग्मथुरायां देवदत्तो वणिक्सुतः । दक्षिणस्यां मथुरायां दिग्यात्रार्थमियाय सः ॥४३॥ वणिक्पुत्रजयसिंहेनाभवत्तस्य सौहृदम् । तावन्योन्यं प्रपेदाते रहस्यैकनिधानताम् ||४४|| स्वसा च जयसिंहस्यान्निका नाम कुमारिका । बभूव भूगतेव स्वर्ललना रूपसम्पदा ||४५॥ जयसिंहोऽन्यदा जामिमन्निकामादिशन्निजाम् । समित्रोऽप्यद्य भोक्ष्येऽहं दिव्यां रसवतीं कुरु ॥ ४६ ॥ इत्युक्त्वा जयसिंहेन देवदत्तो निमन्त्रितः । आगाच्च तद्गृहे भोक्तुं तौ द्वावपि निषेदतुः ||४७ || अष्टादश भक्ष्यभेदान्षड्रसास्वादसुन्दरान् । द्वयोरप्यन्निका सा तु सुवेषा पर्यवेषयत् ॥४८॥ तौ मरुता प्रीणयितुमपाकर्तुं च मक्षिकाः । धुन्वती व्यजनं चक्रे कर्मैकं द्व्यर्थकारि सा ॥ ४९ ॥ प्रक्वणद्वाहुवलयां व्यजनान्दोलनेन ताम् । पश्यन्निन्दुमुखीं देवदत्तः कामवशोऽभवत् ॥ ५० ॥ स वीक्षमाणस्तां बालां लावण्यजलदीर्घिकाम् । तद्रिरंसापरवशो भोज्यास्वादं विवेद न ॥ ५१ ॥ तस्य दृग्विदधे तस्यामापादतलमस्तकम् । आरोहमवरोहं च लतायामिव वानरी ॥ ५२ ॥ मा नेत्रमैत्री प्रत्यूहो भूदस्यामिति बुद्धिमान् । स स्थिरोsपि स्थिरतरं बुभुजे गजलीलया ॥ ५३ ॥ देवदत्तो द्वितीयेऽह्नि जयसिंहस्य सन्निधौ । प्रेषयामास चरकानन्निकायाचनाकृते ।।५४ || ते गत्वा प्रोचुरन्यस्मै कस्मैचिदप्यमूं ननु । यदि दास्यसि तदस्मै देहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org