SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ २४ प्रथमं परिशिष्टम्- टिप्पनानि यत् प्रायश्चित्तं विवेक एव कृते शुद्धिमासादयति नान्यथा, यथाऽऽधाकर्मणि गृहीते, तत् विवेकार्हत्वात् विवेकः, तथा व्युत्सर्ग: कायचेष्टानिरोधोपयोगमात्रेण शुध्यति प्रायश्चित्तम्, यथा दुःस्वप्नजनितम्, तद् व्युत्सर्गार्हत्वात् व्युत्सर्गः, तव त्ति यस्मिन् प्रतिसेविते निर्विकृतिकादिषण्मासपर्यवसानं तपो दीयते, तत् तपोर्हत्वात् तपः, यस्मिन् पुनरापतिते प्रायश्चित्ते सन्दूषितपूर्वपर्यायदेशावच्छेदः शेषपर्यायरक्षानिमित्तं दुष्ट-व्याधिसन्दूषितशरीरैकदेशच्छेदनमवशेषशरीरावयवपरिपालनाय क्रियते तच्छेदार्हत्वात् छेदः, मूल त्ति यस्मिन् समापतिते प्रायश्चित्ते निरवशेषपर्यायोच्छेदमाधाय भूयो महाव्रतारोपणं तन्मूलार्हत्वान् मूलम्, येन पुनः प्रतिसेवितेनोत्थापनाया अप्ययोग्यः सन् कंचित्कालं न व्रतेषु स्थाप्यते यावन्नाद्यापि प्रतिविशिष्टं तपश्चीर्णं भवति, पश्चाच्च चीर्णतपास्तद्दोषोपरतो व्रतेषु स्थाप्यते तदनवस्थितत्वादनवस्थितप्रायश्चित्तम्, पारंचिए चेव त्ति अंचू गतौ [याचने] च [पा० धा० ८६२], यस्मिन् प्रतिसेविते लिंगक्षेत्रकालतपसां पारमञ्चति तत् पाराञ्चितमर्हतीति पाराञ्चितम् । ___पंचादि आरोवण नेयव्वा जाव होंति छम्मासा । तेण पणगादियाणं छण्हुवरि ज्झोसणं कुज्जा ॥१४०॥ रात्रिन्दिवपञ्चकादारभ्यारोपणा पंचादिः रात्रिन्दिवपञ्चकादिका आदिशब्दात् दशपञ्चदश- विंशतिरात्रिन्दिव-मासिकादिपरिग्रहः ज्ञातव्यः, तावत् यावत् षण्मासा भवन्ति, नाधिकम्, यत एवं तेन कारणेन षण्णां मासानामुपरि पणगाइयाणं ति रात्रिन्दिवपञ्चकादीनां ज्झोषणामपनयनं कुर्यात्, षण्मासानामुपरि यदापद्यते प्रायश्चित्तं तत्सर्वं त्यज्यते इति भावः ॥" - व्यवहार० मलय० पीठिका ॥ [पृ०३३९] “दव्वे खेत्ते काले भावे पलिउंचणा चउविगप्पा । चोयग कप्पारोवण इह इं भणिया पुरिसजाया ॥१५०॥ प्रतिकुञ्च्यते अन्यथा प्रतिसेवितमन्यथा कथ्यते यया सा प्रतिकुञ्चना, सा चतुर्विधा, तद्यथा-द्रव्ये द्रव्यविषया, एवं क्षेत्रे काले भावे च, अत्र परस्य प्रश्नमभिधित्सुराह- चोयग त्ति। अत्र चोदको ब्रूते-ननु कल्पेऽपि प्रायश्चित्तमभिहितम्, व्यवहारेऽपि तदेव प्रायश्चित्तमभिधीयते इति द्वयोरप्यध्ययनयोर्विशेषाभावः, अत्रार्थे सूरिवचनं कप्पारोवणेत्यादि। कल्पे कल्पाध्ययने कल्पितानां मूलोत्तरगुणापराधप्रायश्चित्तानामारोपणम्, दानमिह व्यवहाराध्ययने भणितम्, इं इति पादपूरणे इजेरा: पादपूरणे [ ] इति वचनात्, सानुस्वारता प्राकृतत्वात्, प्राकृते हि पादान्ते सानुस्वारता भवतीति, किमुक्तं भवति ? कल्पाध्ययने आभवत् प्रायश्चित्तमुक्तं न तु दानम्, इह तु दानं भणितमिति विशेषः, तथा कल्पाध्ययने प्रायश्चित्तार्हाः पुरुषजाता न भणिता इह तु भणिता इति महान् विशेषः । एष गाथासंक्षेपार्थः । सांप्रतमेनामेव गाथां व्याचिख्यासुः प्रथमतो द्रव्यादिभेदभिन्नां प्रतिकुञ्चनां व्याख्यानयति- सचित्ते अचित्तं जणवयपडिसेवियं तु अद्धाणे । सुभिक्खम्मि दुभिक्खे हटेण तहा गिलाणेणं ॥१५१॥ द्रव्यविषया प्रतिकुञ्चना नाम सचित्ते, उपलक्षणमेतत् मिश्रे वा प्रतिसेविते, अचित्तं मया प्रतिसेवितमित्यालोचयति, क्षेत्रप्रतिकुञ्चना जनपदे प्रतिसेव्य यदध्वनि प्रतिसेवितमित्यालोचयति, कालप्रतिकुञ्चना यत्सुभिक्षे काले सेवित्वा दुर्भिक्षे मया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy