________________
प्रथमं परिशिष्टम्- टिप्पनानि
प्रतिसेवितमित्यावेदयति, भावप्रतिकुञ्चना यत् हृष्टेन सता प्रतिसेव्य ग्लानेन सता मया प्रतिसेवितमित्यालोचयति, उक्ता प्रतिकुञ्चना ।" - व्यवहार० मलय० पीठिका ॥
"दुविहो पमाणकालो दिवसपमाणं च होइ राई य । चउपोरिसिओ दिवसो राई चउपोरिसी चेव ॥२०६९॥ प्रमीयतेऽनेनेति प्रमाणं तदेव प्रमाणकालः । स द्विविध इति दिवसप्रमाणकालो रात्रिप्रमाणकालश्च भवति । तत्र चतसृभिः पौरुसीभिर्दिवसो भवति, एवं रात्रिरपि॥ इति नियुक्तिगाथार्थः ॥२०६९॥ ___ आयउमेत्तविसिट्ठो स एव जीवाण वत्तणाइमओ । भण्णइ अहाउकालो वत्तइ जो जचिरं जेण ॥२०३७॥ स एवोक्तरूपोऽद्धाकालो वर्तनादिमयो जीवानां नारक-तिर्यग्-नरा-ऽमराणां यथायुष्ककालो भण्यते । किं सर्वोऽपि ? न, इत्याह- आयुष्कमात्रविशिष्टः नारकाद्यायुष्कमात्रविशेषित इत्यर्थः, अत एवायं यथायुष्ककालो भण्यते । यद्येन तिर्यग्-मनुष्यादिना जीवेन यथा येन रौद्राऽऽर्त-धर्मध्यानादिना प्रकारेणोपार्जितमायुर्यथायुष्कम्, तस्यानुभवनकालो यथायुष्ककालः । कियन्तमवधिं यावदसौ भवति? इत्याह- यो जीवो येनात्मबद्धेनायुषा जच्चिरं ति यावन्तमन्तर्मुहूर्तादिकं त्रयस्त्रिंशत्सागरोपमपर्यन्तं कालं वर्तते, स तस्य जीवस्य तावन्तमवधिं यावद् यथायुष्ककालो भवतीति तात्पर्यार्थः । इत्येवं विवक्षामात्रकृतोऽद्धाकाल-यथायुष्ककालयोर्भेदः। अतोऽद्धाकालस्यैव विशेषभूतत्वात् तदनन्तरं यथायुष्ककालमाहेति भावः ॥ इति गाथार्थः ॥२०३७||
कालो त्ति मयं मरणं जहेह मरणं गउ त्ति कालगओ । तम्हा स कालकालो जो जस्स मओ स मरणकालो ॥२०६६॥ एकः कालशब्दः ‘कलनं कालः' इत्यादिना प्राग्निरूपितशब्दार्थ एव, द्वितीयस्तु कालोऽत्र मरणम्। इह यथा लोके मरणं गतः प्राप्तः कालगत इत्युच्यते, अतोऽनयैव लोकरूढ्या द्वितीयः कालशब्दो मरणवाचकः । ततः किमिह स्थितम् ? इत्याह- तस्माद् यो यस्य प्राणिनो मरणकालः स तीर्थकृतां कालकालो मतः ॥ इति गाथार्थः ॥२०६६॥” - विशेषाव० मलधारि० ।
[पृ०३४०] “सूरकिरियाविसट्ठो गोदोहाइकिरियासु निरवेक्खो । अद्धाकालो भण्णइ समयखेत्तम्मि समयाई ॥२०३५॥ सूरो भास्करस्तस्य क्रिया मेरोश्चतसृष्वपि दिक्षु प्रदक्षिणतोऽजलं भ्रमणलक्षणा, सूरस्योपलक्षणत्वाच्चन्द्र-ग्रह-नक्षत्र-ताराणामपीहेत्थंभूता क्रिया गृह्यते, तया सूर्यादिक्रियया विशिष्टो विशेषितो व्यक्तीकृतोऽर्धतृतीयद्वीपसमुद्रलक्षणे समयक्षेत्रे यः समया-ऽऽवलिकादिरर्थः प्रवर्तते, न परतः, सूर्यादिक्रियाऽभावात्, सोऽद्धाकालो भण्यते । क्रियैव परिणामवती कालो नान्य इति । ये कालमपयुवते तन्मतव्यवच्छेदार्थमाह- गोदोहादिक्रियासु निरपेक्षः । न खलु यथोक्तोऽद्धाकालः क्रियां गोदोहाद्यात्मिकामपेक्ष्य प्रवर्तते, किन्तु सूर्यादिगतिम्; यथाहि- यावद् यावत् क्षेत्रं स्वकिरणैर्दिनकरश्चलनुद्द्योतयते तद् दिवस उच्यते, परतस्तु रात्रिः, तस्य च दिवसस्य परमनिकृष्टः सूक्ष्मोऽसंख्याततमो भागः समयः, ते चासंख्येया आवलिका इत्यादि । एवं च प्रवृत्तस्यास्य कालस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org