________________
प्रथमं परिशिष्टम्- टिप्पनानि सूर्यादिगतिक्रियां विहाय काऽन्या गोदोहादिक्रियापेक्षा ?॥ इति भाष्यगाथाचतुष्टयार्थः ॥२०३५॥
के पुनस्ते समयादयोऽद्धाकालभेदाः ? इत्याह नियुक्तिकारः
समया-ऽऽवलि-मुहुत्ता दिवसमहोत्त-पक्ख-मासा य । संवच्छर-युग-पलिया सागरओसप्पि-पलियट्टा ॥२०३६॥ इह निर्विभागः परमसूक्ष्मकालांशः समयो भण्यते । स च प्रवचनप्रतिपादितोत्पलपत्रशत-पट्टसाटिकापाटनदृष्टान्ताद् विशेषतः समवसेयः । असंख्येयसमयसमुदयसमितिसमागमनिष्पन्ना आवलिका। द्विघटिको मुहर्तः । दिवसकरप्रभाप्रकाशितनभःखण्डरूपः, चतुष्प्रहरात्मको वा दिवसः । सूर्यकिरणस्पृष्टव्योमखण्डरूपः, चतुष्प्रहरात्मको वा दिवसः; सूर्यकिरणास्पृष्टव्योमखण्डरूपा, चतुर्यामात्मिका वा रात्रिः, तदुभयं त्वहोरात्रम् । पञ्चदशाहोरात्राणि पक्षः । पक्षद्वयात्मको मासः । द्वादशमासनिर्वृत्तः संवत्सरः । पञ्चसंवत्सरप्रमाणं युगम् । असंख्येययुगमानं पल्योपमम् । पल्योपमदशकोटीकोटिघटितं सागरोपमम् । दशसागरोपमकोटीकोट्यात्मिकोत्सर्पिणी। एवमवसर्पिण्यपि। अनन्ताभिरुत्सर्पिण्य-ऽवसर्पिणीभिः पुद्गलपरावर्तः । स च द्रव्यादिभेदभिन्नः प्रवचनादवसेयः ॥ इति नियुक्तिगाथार्थः ॥२०३६॥” - विशेषाव० मलधारि० ॥
[पृ०३४१] “पुरिमा उज्जुजड्डा उ, वक्कजड्डा य पच्छिमा । मज्झिमा उजुपन्ना उ, तेन धम्मे दुहा कए ।।८७२।। पुरिमाणं दुव्विसुज्झो उ, चरिमाणं दुरनुपालओ। कप्पो मज्झिमगाणं तु, सुविसुज्झो सुपालओ ॥८७३॥ वृ० ततः पुरिम त्ति पूर्वे प्रथमतीर्थकृत्साधवः उज्जुजड्डेति ऋजवश्च प्राञ्जलतया जडाश्च तत एव दुष्प्रतिपाद्यतया ऋजुजडाः, तुरिति यस्मात् वक्कजड्डा य त्ति, वक्राश्च वक्रबोधतया जडाश्च तत एव स्वकानेककुविकल्पतो विवक्षितार्थप्रतिपत्त्यक्षमतया वक्रजडाः च: समुच्चये, पश्चिमा: पश्चिमतीर्थकृद्यतयः मध्यमास्तु मध्यमतीर्थकृत्सम्बन्धितपस्विनः, ऋजुप्रज्ञाः ऋजवश्च ते प्रकर्षेण जानन्तीति प्रज्ञाश्च सुखेनैव विवक्षितमर्थं ग्राहयितुं शक्यन्त इति ऋजुप्रज्ञाः, तेन हेतुना धर्मो द्विभेदः कृत: विहितः, एककार्यप्रतिपन्नत्वेऽपीति प्रक्रमः ।।
यदि नाम पूर्वादीनामेवंविधत्वं तथाऽपि कथमेतद् द्वैविध्यमित्याह- पुरिमाणं ति पूर्वेषां दुःखेन विशोध्यो विशोधयितुं निर्मलतां नेतुं शक्यो दुर्विशोध्यः, कल्प इति संबध्यते, ते ह्यतिऋजुतया गुरुभिरनुशिष्यमाणा अपि न तदनुशासनं स्वप्रज्ञाऽपराधाद् यथावत्प्रतिपत्तुं क्षमन्त इति तेषामसौ दुर्विशोध्य उच्यते, तुशब्द उत्तरेभ्यो विशेषं द्योतयति, चरमाणां चरमतीर्थकृत्तपस्विनां दुःखेनानुपाल्यत इति दुरनुपालः, स एव दुरनुपालकः कल्पः यतिक्रियाकलापः, ते हि वक्रत्वेन कुविकल्पाकुलितचित्ततया कथञ्चिज्जानाना अपि न यथावदनुष्ठातुमीशते, मध्यमकानां तु सुखेन विशोध्यो विशोधयितुं शक्यः सुविशोध्यः, सुपालउ त्ति चशब्दस्य गम्यमानत्वात्सुपालकश्च, कोऽसौ ? कल्पः इतीहापि योज्यते, ते हि ऋजुप्रज्ञा इति सम्यग्मार्गानुसारिबोधतया सुखेनैव यथावदवगच्छन्ति पालयन्ति च, अतस्ते चतुर्यामोक्तावपि पञ्चममपि याममुक्तहेतोर्ज्ञातुं पालयितुं च क्षमा इति तदपेक्षया पार्श्वेण चतुर्याम उक्तः, पूर्वपश्चिमाञ्चोक्तनीतितो नेत्थमिति ऋषभ-वर्द्धमानाभ्यां पञ्चमं व्रतमुक्तम्, अयमर्थः- न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org