Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 440
________________ प्रथमं परिशिष्टम्- टिप्पनानि प्रतिसेवितमित्यावेदयति, भावप्रतिकुञ्चना यत् हृष्टेन सता प्रतिसेव्य ग्लानेन सता मया प्रतिसेवितमित्यालोचयति, उक्ता प्रतिकुञ्चना ।" - व्यवहार० मलय० पीठिका ॥ "दुविहो पमाणकालो दिवसपमाणं च होइ राई य । चउपोरिसिओ दिवसो राई चउपोरिसी चेव ॥२०६९॥ प्रमीयतेऽनेनेति प्रमाणं तदेव प्रमाणकालः । स द्विविध इति दिवसप्रमाणकालो रात्रिप्रमाणकालश्च भवति । तत्र चतसृभिः पौरुसीभिर्दिवसो भवति, एवं रात्रिरपि॥ इति नियुक्तिगाथार्थः ॥२०६९॥ ___ आयउमेत्तविसिट्ठो स एव जीवाण वत्तणाइमओ । भण्णइ अहाउकालो वत्तइ जो जचिरं जेण ॥२०३७॥ स एवोक्तरूपोऽद्धाकालो वर्तनादिमयो जीवानां नारक-तिर्यग्-नरा-ऽमराणां यथायुष्ककालो भण्यते । किं सर्वोऽपि ? न, इत्याह- आयुष्कमात्रविशिष्टः नारकाद्यायुष्कमात्रविशेषित इत्यर्थः, अत एवायं यथायुष्ककालो भण्यते । यद्येन तिर्यग्-मनुष्यादिना जीवेन यथा येन रौद्राऽऽर्त-धर्मध्यानादिना प्रकारेणोपार्जितमायुर्यथायुष्कम्, तस्यानुभवनकालो यथायुष्ककालः । कियन्तमवधिं यावदसौ भवति? इत्याह- यो जीवो येनात्मबद्धेनायुषा जच्चिरं ति यावन्तमन्तर्मुहूर्तादिकं त्रयस्त्रिंशत्सागरोपमपर्यन्तं कालं वर्तते, स तस्य जीवस्य तावन्तमवधिं यावद् यथायुष्ककालो भवतीति तात्पर्यार्थः । इत्येवं विवक्षामात्रकृतोऽद्धाकाल-यथायुष्ककालयोर्भेदः। अतोऽद्धाकालस्यैव विशेषभूतत्वात् तदनन्तरं यथायुष्ककालमाहेति भावः ॥ इति गाथार्थः ॥२०३७|| कालो त्ति मयं मरणं जहेह मरणं गउ त्ति कालगओ । तम्हा स कालकालो जो जस्स मओ स मरणकालो ॥२०६६॥ एकः कालशब्दः ‘कलनं कालः' इत्यादिना प्राग्निरूपितशब्दार्थ एव, द्वितीयस्तु कालोऽत्र मरणम्। इह यथा लोके मरणं गतः प्राप्तः कालगत इत्युच्यते, अतोऽनयैव लोकरूढ्या द्वितीयः कालशब्दो मरणवाचकः । ततः किमिह स्थितम् ? इत्याह- तस्माद् यो यस्य प्राणिनो मरणकालः स तीर्थकृतां कालकालो मतः ॥ इति गाथार्थः ॥२०६६॥” - विशेषाव० मलधारि० । [पृ०३४०] “सूरकिरियाविसट्ठो गोदोहाइकिरियासु निरवेक्खो । अद्धाकालो भण्णइ समयखेत्तम्मि समयाई ॥२०३५॥ सूरो भास्करस्तस्य क्रिया मेरोश्चतसृष्वपि दिक्षु प्रदक्षिणतोऽजलं भ्रमणलक्षणा, सूरस्योपलक्षणत्वाच्चन्द्र-ग्रह-नक्षत्र-ताराणामपीहेत्थंभूता क्रिया गृह्यते, तया सूर्यादिक्रियया विशिष्टो विशेषितो व्यक्तीकृतोऽर्धतृतीयद्वीपसमुद्रलक्षणे समयक्षेत्रे यः समया-ऽऽवलिकादिरर्थः प्रवर्तते, न परतः, सूर्यादिक्रियाऽभावात्, सोऽद्धाकालो भण्यते । क्रियैव परिणामवती कालो नान्य इति । ये कालमपयुवते तन्मतव्यवच्छेदार्थमाह- गोदोहादिक्रियासु निरपेक्षः । न खलु यथोक्तोऽद्धाकालः क्रियां गोदोहाद्यात्मिकामपेक्ष्य प्रवर्तते, किन्तु सूर्यादिगतिम्; यथाहि- यावद् यावत् क्षेत्रं स्वकिरणैर्दिनकरश्चलनुद्द्योतयते तद् दिवस उच्यते, परतस्तु रात्रिः, तस्य च दिवसस्य परमनिकृष्टः सूक्ष्मोऽसंख्याततमो भागः समयः, ते चासंख्येया आवलिका इत्यादि । एवं च प्रवृत्तस्यास्य कालस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579