________________
५४४
... आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे पओगकिरिया, समुदाणकिरिया, इरियावहिया । एवं मणुस्साण वि, सेसाणं नत्थि ५ ।
[टी०] एते हि दण्डास्त्रयोदशानां क्रियास्थानानां मध्येऽधीता इति प्रसङ्गत: शेषाण्यष्टौ क्रियास्थानान्यभिधीयन्ते, तत्र मृषाक्रिया आत्म-ज्ञात्याद्यर्थं यदलीकभाषणम् १, तथा 5 अदत्तादानक्रिया आत्माद्यर्थमदत्तग्रहणम् २, तथा अध्यात्मक्रिया यत् केनापि
कथञ्चनाप्यपरिभूतस्य दौर्मनस्यकरणम् ३, तथा मानक्रिया यज्जात्यादिमदमत्तस्य परेषां हीलनादिकरणम् ४, तथा अमित्रक्रिया यत् माता-पितृ-स्वजनादीनामल्पेऽप्यपराधे तीव्रदण्डस्य दहना-ऽङ्कन-ताडनादिकस्य करणम् ५, तथा मायाक्रिया यच्छठतया
मनोवाक्कायप्रवर्तनम् ६, तथा लोभक्रिया यल्लोभाभिभूतस्य सावद्यारम्भ-परिग्रहेषु महत्सु 10 प्रवर्त्तनम् ७, तर्यापथिकक्रिया यदुपशान्तमोहादेरेकविधकर्मबन्धनमिति ८, अत्र
गाथाअट्ठा १ णट्ठा २ हिंसा ३ ऽकम्हा ४ दिट्ठी य ५ मोस ६ ऽदिन्ने य ७ ।। अज्झत्थ ८ माण ९ मित्ते १० माया ११ लोभे १२ रियावहिया १३ ॥ [आव० सं०] इति,
नवरं विगलिंदियेत्यादि एक-द्वि-त्रि-चतुरिन्द्रियेषु मिथ्यादृष्टिविशेषणं न वाच्यम्, 15 तेषां सदैव सम्यक्त्वाभावेन व्यवच्छेद्याभावात्, सासादनस्य चाल्पत्वेनाविवक्षितत्वादिति।
कायिकी कायचेष्टा १, आधिकरणिकी खड्गादिनिर्वर्तनी २, प्राद्वेषिकी मत्सरजन्या ३, पारितापनिकी दु:खोत्पादनरूपा ४, प्राणातिपात: प्रतीत: ५ ।
दिट्ठिया अश्वादिचित्रकर्मादिदर्शनार्थं गमनरूपा १, पुट्ठिया जीवादीन् रागादिना पृच्छतः स्पृशतो वा २, पाडुच्चिया जीवादीन् प्रतीत्य या ३, सामंतोवणिवाइया 20 अश्वादि-रथादिकं लोके श्लाघयति हृष्यतो अश्वादिपतेरिति ४, साहत्थिया स्वहस्तगृहीतजीवादिना जीवं मारयत: ५।
नेसत्थिया यन्त्रादिना जीवाजीवान् निसृजत: १, आणवणिया जीवाजीवानानाययत: २, वियारणिया तानेव विदारयत: ३, अणाभोगवत्तिया अनाभोगेन पात्राद्याददतो निक्षिपतो वा ४, अणवकंखवत्तिया इह-परलोकापायानपेक्षस्येति ५ । । 25 पेज्जवत्तिया रागप्रत्यया १, दोसवत्तिया द्वेषप्रत्यया २, प्रयोगक्रिया
१. आवश्यकसूत्रस्य चतुर्थाध्ययने 'तेरसहिं किरियाठाणेहिं' इत्यस्य हारिभत्र्यां वृत्तौ निर्दिष्टायां सङ्ग्रहण्यां गाथा।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org