Book Title: Agam 03 Ang 03 Sthananga Sutra Part 02
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 417
________________ प्रथमं परिशिष्टम् - टिप्पनानि गृध्रादीनां नवं बलिम् ॥१४५॥ तेन शोकेन यदवो बहवो मिसन्निधौ । प्रवव्रजुर्दशार्हाश्च वसुदेवं विना नव ॥१४६॥|” त्रिषष्टि० ८|१०| [पृ०३०३ पं०१५, पृ०३०६ पं०११] सनत्कुमारचक्रवर्तिकथानकं त्रिषष्टिशलाकापुरुषचरितचतुर्थपर्वसप्तमसर्गादिषु विस्तरेण वर्तते । २ - [पृ०३०३ पं०२०, पृ०३०६ पं० १४] भगवत्या मरुदेव्याः कथानकं त्रिषष्टिशलाकापुरुषचरितस्य प्रथमपर्वणि तृतीये सर्गे वर्तते, अन्यत्रापि च । त्रिषष्टि० मध्ये एवम् - “ इतोऽपि च विनीतायां, विनीतो भरतेश्वरः । आजगाम नमस्कर्तुं मरुदेवां दिवामुखे ||४८८॥ तनूजविरहोद्भूतैरश्रान्तैरस्रवारिभिः । जातनीलिकया लुप्तलोचनाब्जां पितामहीम् ॥ ४८९ ॥ ज्येष्ठः पौत्रो नमत्येष देवि ! त्वत्पादपङ्कजे। स्वयं विज्ञपयन्नेवं, भरतः प्रणनाम ताम् ||४९०|| [युग्मम् ] स्वामिनी मरुदेवाऽपि, भरतायाऽशिषं ददौ । हृद्यमान्तीं शुचमिव, गिरमित्युज्जगार च ॥ ४९१ || मां त्वां महीं प्रजां लक्ष्मीं, विहाय तृणवत् तदा । एकाकी गतवान् वत्सो, दुर्मरा मरुदेव्यहो ! ॥ ४९२ ॥ सूनोश्चन्द्रातपच्छायमातपत्रं क्व मूर्द्धनि ? । सर्वाङ्गसन्तापकरः, क्वेदानीं तपनातपः ? || ४९३ ॥ सलीलगतिभिर्यानैर्यानं हस्त्यादिभिः क्व तत् ? । वत्सस्य पादचारित्वं, क्वेदानीं पथिकोचितम् ? || ४९४ || क्व तद् वारवधूत्क्षिप्तचारुचामरवीजनम् ?। मत्सूनोः क्वाऽधुना दंशमशकाद्यैरुपद्रवः ? || ४९५ ॥ क्व तद् देवसमानीतदिव्याहारोपजीवनम् ? । क्व भिक्षाभोजनं तस्याऽभोजनं वाऽपि सम्प्रति ? || ४९६ ॥ रत्नसिंहासनोत्सङ्गे, महर्द्धेः क्व तदासनम् ? | मत्सूनोः खड्गिन इव, क्व निरासनताऽधुना ? ||४९७ || आरक्षैरात्मरक्षैश्च, रक्षिते क्व पुरे स्थितिः ?। सूनोः क्व वासः सिंहाहिदुः श्वापदपदे वने ? || ४९८ ।। क्व तद् दिव्याङ्गनागीतं, कर्णामृतरसायनम् ? सूनोः क्वोन्मत्तफेरुण्डफेत्काराः कर्णसूचयः ॥ ४९९॥ अहो ! कष्टमहो ! कष्टं, यन्मे सूनुस्तपात्यये । पद्मखण्ड इव मृदुः, सहते वारिविद्रवम् ||५०० || हिमर्तौ हिमसम्पातसंक्लेशविवशां दशाम् । अरण्ये मालतीस्तम्ब, इव याति निरन्तरम् ||५०१ || उष्णर्त्तावुष्णकिरणकिरणैरतिदारुणैः । सन्तापं चाऽनुभवति, स्तम्बेरम इवाऽधिकम् ॥५०२ ॥ तदेवं सर्वकालेषु, वनेवासी निराश्रयः । पृथग्जन इवैकाकी, वत्सो मे दुःखभाजनम् ||५०३ ॥ तत्तद्दुःखाकुलं वत्सं पश्यन्त्यग्रे दृशोरिव । वदन्ती नित्यमप्येवं, हा ! त्वामपि दुनोम्यहम् ||५०४|| इति दुःखाकुलां देवीं, मरुदेवीमुदञ्जलिः । वाचाऽवोचन्नवसुधासध्रीच्या वसुधाधवः ||५०५ || स्थैर्याद्रेर्वज्रसारस्य, महासत्त्वशिरोमणेः । तातस्य जननी भूत्वा, किमेवं देवि ! ताम्यसि ? ||५०६ || तातस्तरीतुं सहसा, संसाराम्भोधिमुद्यतः । कण्ठबद्धशिलाप्रायानू, स्थाने तत्याज नः प्रभुः ||५०७|| वने विहरतो भर्त्तुः, प्रभावाच्छ्वापदा अपि । नोपद्रवं कर्तुमलं, पाषाणघटिता इव ॥ ५०८ ॥ क्षुत्पिपासातपप्राया, दुःसहा ये परीषहाः । सहायाः खलु तातस्य, ते कर्मद्वेषिसूदने ॥५०९॥ न चेत् प्रत्येषि मद्वाचा, प्रत्येष्यसि तथाऽपि हि । तातस्य न चिराज्जातकेवलोत्सववार्त्तया ॥ ५१०॥ अत्रान्तरे महीभर्त्तुर्ज्ञापितौ वेत्रपाणिना । नाम्ना यमक - शमकौ, पुरुषावभ्युपेयतुः ॥ ५११ || प्रणम्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579