________________
प्रथमं परिशिष्टम् - टिप्पनानि
गृध्रादीनां नवं बलिम् ॥१४५॥ तेन शोकेन यदवो बहवो मिसन्निधौ । प्रवव्रजुर्दशार्हाश्च वसुदेवं विना नव ॥१४६॥|” त्रिषष्टि० ८|१०|
[पृ०३०३ पं०१५, पृ०३०६ पं०११] सनत्कुमारचक्रवर्तिकथानकं त्रिषष्टिशलाकापुरुषचरितचतुर्थपर्वसप्तमसर्गादिषु विस्तरेण वर्तते ।
२
-
[पृ०३०३ पं०२०, पृ०३०६ पं० १४] भगवत्या मरुदेव्याः कथानकं त्रिषष्टिशलाकापुरुषचरितस्य प्रथमपर्वणि तृतीये सर्गे वर्तते, अन्यत्रापि च । त्रिषष्टि० मध्ये एवम् - “ इतोऽपि च विनीतायां, विनीतो भरतेश्वरः । आजगाम नमस्कर्तुं मरुदेवां दिवामुखे ||४८८॥ तनूजविरहोद्भूतैरश्रान्तैरस्रवारिभिः । जातनीलिकया लुप्तलोचनाब्जां पितामहीम् ॥ ४८९ ॥ ज्येष्ठः पौत्रो नमत्येष देवि ! त्वत्पादपङ्कजे। स्वयं विज्ञपयन्नेवं, भरतः प्रणनाम ताम् ||४९०|| [युग्मम् ] स्वामिनी मरुदेवाऽपि, भरतायाऽशिषं ददौ । हृद्यमान्तीं शुचमिव, गिरमित्युज्जगार च ॥ ४९१ || मां त्वां महीं प्रजां लक्ष्मीं, विहाय तृणवत् तदा । एकाकी गतवान् वत्सो, दुर्मरा मरुदेव्यहो ! ॥ ४९२ ॥ सूनोश्चन्द्रातपच्छायमातपत्रं क्व मूर्द्धनि ? । सर्वाङ्गसन्तापकरः, क्वेदानीं तपनातपः ? || ४९३ ॥ सलीलगतिभिर्यानैर्यानं हस्त्यादिभिः क्व तत् ? । वत्सस्य पादचारित्वं, क्वेदानीं पथिकोचितम् ? || ४९४ || क्व तद् वारवधूत्क्षिप्तचारुचामरवीजनम् ?। मत्सूनोः क्वाऽधुना दंशमशकाद्यैरुपद्रवः ? || ४९५ ॥ क्व तद् देवसमानीतदिव्याहारोपजीवनम् ? । क्व भिक्षाभोजनं तस्याऽभोजनं वाऽपि सम्प्रति ? || ४९६ ॥ रत्नसिंहासनोत्सङ्गे, महर्द्धेः क्व तदासनम् ? | मत्सूनोः खड्गिन इव, क्व निरासनताऽधुना ? ||४९७ || आरक्षैरात्मरक्षैश्च, रक्षिते क्व पुरे स्थितिः ?। सूनोः क्व वासः सिंहाहिदुः श्वापदपदे वने ? || ४९८ ।। क्व तद् दिव्याङ्गनागीतं, कर्णामृतरसायनम् ? सूनोः क्वोन्मत्तफेरुण्डफेत्काराः कर्णसूचयः ॥ ४९९॥ अहो ! कष्टमहो ! कष्टं, यन्मे सूनुस्तपात्यये । पद्मखण्ड इव मृदुः, सहते वारिविद्रवम् ||५०० || हिमर्तौ हिमसम्पातसंक्लेशविवशां दशाम् । अरण्ये मालतीस्तम्ब, इव याति निरन्तरम् ||५०१ || उष्णर्त्तावुष्णकिरणकिरणैरतिदारुणैः । सन्तापं चाऽनुभवति, स्तम्बेरम इवाऽधिकम् ॥५०२ ॥ तदेवं सर्वकालेषु, वनेवासी निराश्रयः । पृथग्जन इवैकाकी, वत्सो मे दुःखभाजनम् ||५०३ ॥ तत्तद्दुःखाकुलं वत्सं पश्यन्त्यग्रे दृशोरिव । वदन्ती नित्यमप्येवं, हा ! त्वामपि दुनोम्यहम् ||५०४||
इति दुःखाकुलां देवीं, मरुदेवीमुदञ्जलिः । वाचाऽवोचन्नवसुधासध्रीच्या वसुधाधवः ||५०५ || स्थैर्याद्रेर्वज्रसारस्य, महासत्त्वशिरोमणेः । तातस्य जननी भूत्वा, किमेवं देवि ! ताम्यसि ? ||५०६ || तातस्तरीतुं सहसा, संसाराम्भोधिमुद्यतः । कण्ठबद्धशिलाप्रायानू, स्थाने तत्याज नः प्रभुः ||५०७|| वने विहरतो भर्त्तुः, प्रभावाच्छ्वापदा अपि । नोपद्रवं कर्तुमलं, पाषाणघटिता इव ॥ ५०८ ॥ क्षुत्पिपासातपप्राया, दुःसहा ये परीषहाः । सहायाः खलु तातस्य, ते कर्मद्वेषिसूदने ॥५०९॥ न चेत् प्रत्येषि मद्वाचा, प्रत्येष्यसि तथाऽपि हि । तातस्य न चिराज्जातकेवलोत्सववार्त्तया ॥ ५१०॥ अत्रान्तरे महीभर्त्तुर्ज्ञापितौ वेत्रपाणिना । नाम्ना यमक - शमकौ, पुरुषावभ्युपेयतुः ॥ ५११ || प्रणम्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org