________________
प्रथमं परिशिष्टम्- टिप्पनानि यमकस्तत्र, भरतेशं व्यजिज्ञपत् । दिष्ट्याऽद्य वर्धसे देवाऽनया कल्याणवार्त्तया ॥५१२॥ पुरे पुरिमतालाख्ये, कानने शकटानने । युगादिनाथपादानामुदपद्यत केवलम् ॥५१३॥ प्रणम्य शमकोऽप्युच्चैःस्वरमेवं व्यजिज्ञपत् । इदानीमायुधागारे चक्ररत्नमजायत ॥५१४॥ उत्पन्नकेवलस्तात, इतश्चक्रमितोऽभवत् । आदौ करोमि कस्याऽर्चामिति दध्यौ क्षणं नृपः ॥५१५॥ क्व विश्वाभयदस्तातः ?, क्व चक्र प्राणिघातकम् ?। विमृश्येति स्वामिपूजाहेतोः स्वानादिदेश सः ॥५१६॥ यथोचितमथो दत्त्वा, पुष्कलं पारितोषिकम् । विससर्ज नरेन्द्रस्तौ, मरुदेवामुवाच च ॥५१७।। देवि ! त्वं सर्वदाऽपीदमादिक्षः करुणाक्षरम् । भिक्षाहारो यदेकाकी, वत्सो मे दुःखभाजनम् ॥५१८॥ त्रैलोक्यस्वामिताभाजः, स्वसूनोस्तस्य सम्प्रति । पश्य सम्पदमित्युक्त्वाऽऽरोहयामास तां गजे ॥५१९।। सुवर्णवज्रमाणिक्यभूषणैस्तुरगैर्गजैः । पत्तिभिः स्यन्दनैर्मू-श्रीमयैः सोऽचलत् ततः ॥५२०॥ सैन्यैर्भूषणभा:पुञ्जकृतजङ्गमतोरणैः । गच्छन् दूरादपि नृपोऽपश्यद् रत्नध्वजं पुरः ॥५२१।। मरुदेवामथाऽवादीद्, भरतः परतो ह्यदः । प्रभोः समवसरणं, देवि ! देवैर्विनिर्मितम् ॥५२२॥ अयं जयजयारावतुमुलस्त्रिदिवौकसाम् । श्रूयते तातपादाब्जसेवोत्सवमुपेयुषाम् ।।५२३॥ गम्भीरमधुरं मातर्दिव्ययं दुन्दुभिर्नदन् । तनोति हृदयानन्दं, वैतालिक इव प्रभोः ॥५२४॥ स्वामिपादाब्जवन्दारुवृन्दारकविमानभूः । अनणुः किङ्किणीनादः, श्रवणातिथिरेष नः ॥५२५॥ स्वामिदर्शनहृष्टानां, क्ष्वेडानादो दिवौकसाम् । स्तनितं स्तनयित्नूनामिवैष श्रूयते दिवि ॥५२६॥ गन्धर्वाणामियं गीतिामरागपवित्रिता । स्वामिवाचो भुजिष्येव, पुष्यत्यानन्दमद्य नः ॥५२७।।
शृण्वत्यास्तत् ततो देव्या, मरुदेव्या व्यलीयत । आनन्दाश्रुपयःपूरैः, पङ्कवन्नीलिका दृशोः ॥५२८॥ साऽपश्यत् तीर्थकृल्लक्ष्मी, सूनोरतिशयान्विताम् । तस्यास्तदर्शनानन्दात्, तन्मयत्वमजायत ॥५२९।। साऽऽरुह्य क्षपकश्रेणिमपूर्वकरणक्रमात् । क्षीणाष्टकर्मा युगपत्, केवलज्ञानमासदत् ॥५३०।। करिस्कन्धाधिरूद्वैव, स्वामिनी मरुदेव्यथ । अन्तकृत्केवलित्वेन, प्रपेदे पदमव्ययम् ॥५३१।। एतस्यामवसर्पिण्यां, सिद्धोऽसौ प्रथमस्ततः । सत्कृत्य तद्वपुः क्षीरनीरधौ निदधेऽमरैः ॥५३२॥" - त्रिषष्टिः ॥
[पृ०३०७ पं.२१] कामदेवकथा- “तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव विहरइ, तए णं से कामदेवे समणोवासए इमीसे कहाए जाव लद्धट्टेसमाणे एवं खलु समणे भगवं महावीरे जाव विहरइ तं सेयं खलु मम समणं भगवं महावीरं वंदित्ता नमंसित्ता तओ पडिनियत्तस्स पोसहं पारित्तए त्ति कट्ट एवं संपेहेइ, संपेहित्ता सुद्धप्पावेसाइं वत्थाई जाव अप्पमहग्घ० जाव मणुस्सवग्गुरापरिक्खित्ते सयाओ गिहाओ पडिनिक्खमइ, २ ता पं नगरिं मज्झमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव पुण्णभद्दे चेइए जहा संखो जाव पज्जुवासइ ॥२६॥
कामदेवाइ ! समणे भगवं महावीरे कामदेवं समणोवासयं एवं वयासी- से नूनं कामदेवा! तुब्भं पुव्वरत्तावरत्तकालसमयंसि एगे देवे अंतिए पाउब्भूए, तए णं से देवे एगं महं दिव्वं पिसायरूवं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org