________________
प्रथमं परिशिष्टम्- टिप्पनानि । [पृ०३०३ पं०७, पृ०३०५ पं०२४] भरतचक्रवर्तिनः कथानकं त्रिषष्टिशलाकापुरुषचरितप्रथमपर्वप्रभृतिषु ग्रन्थेषु द्रष्टव्यम् ॥
[पृ०३०३ पं०१२, पृ०३०६ पं०८] गजसुकुमारचरितं त्रिषष्टिशलाकापुरुषचरितेऽष्टमे पर्वणि दशमे सर्गे ९४, १२२-१४६ श्लोकेषु वर्तते । अन्येष्वपि बहुषु ग्रन्थेषु वर्तते ।
"इतश्च भगवान् नेमिः पावयन् पृथिवीतलम् । क्रमेण भद्दिलपुरं पुरप्रवरमीयिवान् ॥९४॥ .... अनु तद्वचनं स्वर्गाच्च्युत्वा देवो महर्द्धिकः । देवक्याः कुक्षिमायासीज्जज्ञे च समये सुतः ॥१२२॥ नाम्ना गजसुकुमालं रूपात् कृष्णमिवापरम् । तं स्वयं लालयामास देवकी देवसन्निभम् ॥१२३|| सोऽत्यन्तवल्लभो मातुर्धातुश्च प्राणसन्निभः । द्वयोनॆत्रेन्दीवरेन्दुः क्रमेण प्राप यौवनम् ॥१२४।। प्रभावतीमभिधया द्रुमस्य पृथिवीपतेः। कन्यां गजसुकुमाल: पित्रादेशादुपायत ॥१२५॥ सोमशर्मद्विजसुतां सोमाख्यां क्षत्रियाभवाम् । सोऽनिच्छन्नप्युपयेमे मातृभ्रात्रोर्निदेशतः ।।१२६।। तदैव तत्र समवासार्षीन्नेमिस्तदन्तिके । धर्मं गजसुकुमाल: सभार्योऽवहितोऽशृणोत् ।।१२७।। ततश्चोत्पन्नवैराग्यः पत्नीभ्यां सहितो गजः । पितरौ समनुज्ञाप्य स्वामिपार्श्वेऽग्रहीद् व्रतम् ॥१२८।। गजे प्रव्रजिते चाथ तद्वियोगासहिष्णवः । पितरौ कृष्णमुख्याश्च भ्रातरो रुरुदुस्तराम् ॥१२९॥ सायं स स्वामिनं पृष्ट्वा श्मशाने प्रतिमां व्यधात् । बहिर्गतेन दृष्टश्च ब्रह्मणा सोमशर्मणा ॥१३०॥ सोमशर्माऽचिन्तयच्च यत्पाखंडचिकीरयम्। विडंबनाय मत्पुत्रीमुपयेमे दुराशयः ॥१३१।। इति क्रुद्धस्तच्छिरसि सोमशर्मा विरुद्धधीः । ज्वलच्चितांगारपूर्णं घटीकंठमतिष्ठपत् ॥१३२।। तेनातिदह्यमानोऽपि सोऽधिसेहे समाहितः । दग्धकर्मेन्धनो जातकेवलश्च ययौ शिवम् ॥१३३।। प्रातश्चचाल कृष्णोऽपि रथस्थः सपरिच्छदः । द्रष्टुं गजसुकुमालमुत्कंठापूर्णमानसः ॥१३४॥ निर्गच्छन् द्वारकायाश्च बहिरैक्षिष्ट स द्विजम् । वहन्तमिष्टकां मूर्धा वृद्धं देवालयं प्रति ॥१३५।। तस्यानुकम्पया कृष्ण आपाकात्स्वयममिष्टकाम् । निन्ये देवकुले तस्मिन् लोकोऽनैषीच्च कोटिशः ॥१३६।। कृतार्थं तं द्विजं कृत्वा ययौ नेमि जनार्दनः । न चापश्यद्रजं तत्र मुक्तं निधिमिवात्मना ॥१३७।। क्व मे भ्राता गज इति पप्रच्छ स्वामिनं हरिः । सोमद्विजागजमोक्षमाचख्यौ भगवानपि ॥१३८॥ ततो मुमूर्छ गोविंदो लब्धसंज्ञः पुनः प्रभुम् । पप्रच्छ भ्रातृवधको ज्ञातव्यः स कथं मया ।।१३९|| भगवानप्यभाषिष्ट मा कुपः सोमशर्मणे । त्वद्भातुः स हि सहायः सद्यो मोक्षस्य साधने ॥१४०॥ सिद्धिः स्याच्चिरसाध्यापि सहायवशतः क्षणात् । यथा त्वयाद्य वृद्धस्य ब्राह्मणस्येष्टकार्पणात् ॥१४१।। सोमशर्मा न कुर्याच्चेत् कर्म त्वद्भातुरीदृशम् । तत्कथं तस्य सिद्धिः स्यात्कालक्षेपं विनैव हि ॥१४२।। स्वमुद्बद्धं व्रजस्त्वां च विशन्तं पुरि वीक्ष्य यः । भिन्नमूर्धा म्रियते तं जानीथा भ्रातृघातकम् ॥१४३॥ ततः कृष्णो रुदन् भ्रातुः संस्काराद्यकरोत् स्वयम् । प्राविशच्च पुरी सोममैक्षिष्ट च तथा मृतम् ॥१४४॥ बन्धयित्वा पादयोस्तं पुर्यामभ्रमयन्नरैः । बहिश्च क्षेपयामास
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org