Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 24
________________ लज्जमानाः पृथक् पश्य अनगाराः स्म इत्येके प्रवदन्तो यदिदं विरूपरूपैः शस्त्रैर्वनस्पतिकायसमारम्भेण वनस्पतिशस्त्रं समारभमाणा अन्यान् अनेकरूपान् प्राणिनो विहिंसन्ति, तत्र खलु भगवता परिज्ञा प्रवेदिता, अस्य चैव जीवितस्य परिवन्दन-मानन-पूजनाय जातिमरणमोचनाय दुःखप्रतिघातहेतुं च स स्वयमेव वनस्पतिशस्त्रं समारभते अन्यैर्वा वनस्पतिशस्त्रं समारम्भयति, अन्यान् वा वनस्पतिशस्त्रं समारभमाणान् समनुजानीते, तत्तस्य अहिताय, तत्तस्य अबोधये, स तत् संबुध्यमान आदानीयं सम्यग्दर्शनादि समुत्थाय-आदाय श्रुत्वा भगवतः अनगाराणां वाऽन्तिके इहैकेषां ज्ञातं भवति एष, खलु मोहः, एष खलु मारः, एष खलु नरकः, इत्येवमर्थं गृद्धो लोको यदिदं विरूपरूपैः शस्त्रैवनस्पतिकर्मसमारम्भेण वनस्पतिशस्त्रं समारभभाणः अन्यान् अनेकरूपान् प्राणिनो विहिनस्ति ॥४६।। सामतं वनस्पतिजीवास्तित्वे लिङ्गमाह से बेमि, इमंपि जाइधम्मयं, एयंपि जाइधम्मयं, इमंपि वुढिधम्मयं, एयंपि बुड्ढिधम्मयं, इमंपि चित्तमंतयं, एयंपि चित्तमंतयं, इमंपि छिण्णं मिलाइ, एयंपि छिणं मिलाइ, इमंपि आहारगं, एयंपि आहारगं, इमंपि अणिच्चयं, एयंपि अणिच्चयं, इमंपि असासयं, एयपि असासयं, इमंपि चओवचइयं, एयंपि चओवचइयं, इमंपि विपरिणामधम्मयं, एयंपि विपरिणामधम्मयं ॥४७॥ सोऽहं ब्रवीमि - इदमपि मनुष्यशरीरमपि जातिधर्म-जननस्वभावम् एतदपि - वनस्पतिशरीरमपि जातिधर्मम्, इदमपि वृद्धिधर्मम् एतदपि वृद्धिधर्मम्, इदमपि चित्तमत्, एतदपि चित्तमत्, इदमपि छिन्नं म्लायति एतदपि छिन्नं म्लायति, इदमपि आहारकम् एतदपि आहारकम्, इदमपि अनित्यकम् एतदपि अनित्यकम्, इदमपि अशाश्वतम् एतदपि अशाश्वतम्, इदमपि चयापचयिकम् एतदपि चयापचयिकम्, इदमपि विपरिणामधर्मकम् एतदपि विपरिणामधर्मकमिति ॥४७।। ___एवं वनस्पतेश्चैतन्यं प्रदर्श्य तदारम्भे बन्धं तत्परिहाररूपविरत्यासेवनेन मुनित्वं प्रतिपादयन्नुपसजिहीर्षुराह एत्थ सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाता भवति, एत्थ सत्थं असमारंभमाणस्स इच्छेते आरंभा परिणाया भवंति, तं परिणाय ___ -- श्री आचारागसूत्रम् (अक्षरगमनिका) * १५

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126