Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
• एष श्रोतृविवेचको वीरः प्रशंसितः, यो बद्धानां प्रतिमोचकः । कुतो व्यवस्थितान् जन्तून मोचयतीत्याह . ऊर्ध्वं ज्योतिष्कादीन् अधो भवनपत्यादीन्, तिर्यक्षु च दिक्षु मनुष्यादीनिति । किञ्च स सर्वतः सर्वपरिज्ञाचारी- सर्वचारित्री न लिप्यते क्षणपदेन- हिंसाऽऽस्पदेन वीरः । किञ्च - स मेधावी अणोद्घातनखेदज्ञः - कर्मोद्घातननिपुणः । यश्च बन्धप्रमोक्षान्वेषी स कुशलः - केवली छद्मस्थो वा पुनर्नो बद्धो गृहस्थ इव न च मुक्तो भवस्थत्वादिति ॥१०३।।
___ एवंभूतश्च कुशलः केवली छद्मस्थो वा यदाचीर्णवानाचरति वा तदपरेणावि मुमुक्षुणा विधेयमिति दर्शयति -
से जंच आरंभे जं च नारभे, अणारद्धं च न आरभे, छणं छणं परिणाय लोगसन्नं च सब्बसो ॥१०४॥
स यच्च संयमानुष्ठानमारभते यच्च संसारकारणं नाऽऽरभते, तदारब्धव्यमनारब्धव्यं च, अनारब्धं- अनाचीर्णं च नाऽऽरभेत, क्षणं क्षणं - प्रत्येकं हिंसास्थानं परिज्ञाय परिहरेत् यदिवा प्रत्येकम् अवसरं परिज्ञाय तदनुरुपमाचरेदिति । किंञ्च- लोकसंज्ञां - विषयसुखेच्छां परिग्रहसंज्ञां वा सर्वशः परिहरेदिति ॥१०४॥
एवंविधस्य सत्पथव्यवस्थितस्य यद्भवति तद्दर्शयति -
उद्देसो पासगस्स नत्थि, बाले पुणे निहे कामसमणुन्ने, असमियदुक्खे दुक्खी दुक्खाणमेव आवर्ल्ड अणुपरियट्टइ त्ति बेमि ॥१०५॥
उद्देशः-नारकादिव्यपदेशः पश्यकस्य-परमार्थदृशो नास्ति । बालः पुनः निहः स्निहो वा पूर्ववत् कामसमनोज्ञः अशमितदुःखो दुःखी दुःखानामेवाऽऽवर्तमनुपरिवर्तत इति ब्रवीमि ॥१०४।।
॥ ३ : शीतोष्णीयाध्ययनं- उद्देशकः-१ ॥ अनन्तरसूत्रे दुःखी दुःखानामेवावर्तमनुपरिवर्तत इत्युक्तं, तदिहापि भावसुप्ता अज्ञानिनो दुःखीनो दुःखानामेवावर्तमनुपरिवर्तन्त इत्याह -
सुत्ता अमुणी सया मुणिणो जागरंति ॥१०६॥ अज्ञानमोहनिद्रया सुप्ता अमुनयः मिथ्यादृष्टयः, सदा मुनयः
श्री आचारागसूत्रम् (अक्षरगमनिका) *
३९

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126