Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 113
________________ रागद्वेषाऽकरणतया प्रेरयेत् 1 कोलावासं घुणकीटकाऽऽवासस्तं घुणक्षतमुद्देहिकानिचितं वा फलकं समासाद्य वितथं प्रादुरेषयेत् प्रकटमशुषिरं फलकमवष्टम्भनायान्वेषयेत् ॥१७॥ यतो वज्रं वज्रवत् गुरुत्वात् कर्म अवद्यं वा समुत्पद्येत, न तत्र अवलम्बे । तत उत्कर्षेद्-उत्क्रामयेत् आत्मानं, स्पर्शान तत्र इङ्गितमरणे अध्यासयेत् ॥ १८ ॥ गत इङ्गितमरणाधिकारः । साम्प्रतं पादपोपगमनमाश्रित्याह अयं पादपोपगमनविधिः आयततर आत्ततरो वाऽतिशयेनाऽऽत्तो गृहीत आत्ततरो यत्नेनाऽध्यवसित स्यात् । य एवमनुपालयेत् स सर्वगात्रनिरोधेऽपि उतप्यमानकायोपि मूर्च्छन्नपि मरणसमुद्घातगतो वा भक्ष्यमाणमांसशोणितोऽपि क्रोष्टुगृध्रपिपीलकादिभिः स्थानान्नाऽपि उद्भ्रमेत्-द्रव्यभावोभयतः स्थानान्तरं न यायात् ||१९|| किं च अयं स उत्तमो धर्मः अन्तःकरणनिष्पन्नत्वात् पूर्वस्थानात् प्रग्रहः-प्रगृहीततरं परिस्पन्दनरहितं चिलातीपुत्रवत् । अचिरं स्थण्डिलं प्रत्युपेक्ष्य विहरेत् तिष्ठेन्माहनः ||२०| एतदेव प्रकान्तरेण दर्शयितुमाह - अचित्तं तु समासज्ज, ठावए तत्थ अप्पगं । वोसिरे सव्वसो कार्य, न मे देहे परीसहा, ॥२१॥ जावज्जीवं परीसहा, उवसग्गा इति संखया संबुडे देह भेयाए, इय पन्नेऽहियास ||२२|| भेउरेसु न रज्जिज्जा, कामेसु बहुतरेसुवि इच्छालोभं न सेविज्जा, ध्रुववन्नं सपेहिया ॥ २३ ॥ सासएहिं निमन्तिज्जा, दिव्वमायं न सद्दहे । तं पडिबुज्झ माहणे, सव्वं नूमं विहूणिया ||२४|| सव्वद्वेहिं अमुच्छिए, आउकालस्स पारए । तितिक्खं परमं नच्चा, विमोहन्नयरं हियं ॥ २५॥ त्तिबेमि ॥ अचित्तं स्थण्डिलं फलकादि वा तु समासाद्य स्थापयेत् तत्राऽऽत्मानम् । व्युत्सृज्य सर्वशः कायं न मे देहे परीषहाः, देहस्य परित्यक्तत्वाद् यदिवा परीषहकृतपीडयोद्वेगाभावात् ॥२१॥ - ते पुनः कियन्त कालं सोढव्या इत्याह यावज्जीवं परीषहाः उपसर्गा इति संख्याय - ज्ञात्वा संवृत-उत्थितो देहभेदाय इति प्राज्ञः अधिसहेत ||२२|| एवंभूतं च साधुमुपलभ्य कश्चिद्राजादिर्भोगैर्निमन्त्रयेत्, तत् प्रतिविधानार्थमाह - १०४ * श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126