Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
किंच -
अदु पोरिसिं तिरियं भित्तिं, चक्खुमासज्ज अन्तसो झायइ । अह चक्खुभीया संहिया ते, हन्ता हन्ता बहवे कंदिसु ॥५॥ सयणेहिं वितिमिस्सेहि इथिओ तत्थ से परिन्नाय सागारियं न सेवेइ य, से सयं पवेसिया झाइ ॥६॥ जे के इमे अगारत्था मीसीभावं पहाय से झाइ । पुट्ठोवि नाभिभासिंसु गच्छइ नाइवत्तइ अंजू (पुट्ठो व सो अपुट्ठो व नो अणुन्नाइ पावगं भगवं) ॥७॥ णो सुकरमेयमेगेसिं नाभिभासे य अभिवायमाणे । हयपुचे तत्थ दंडेहिं लूसियपुब्बे अप्पपुण्णेहिं ॥८॥
अथ पौरुषीं-पुरुषप्रमाणां वीथीं तिर्यग्भित्ति-शकटोर्द्धिवच्चक्षुः समासाद्य-दत्त्वाऽन्तशो-मध्ये ध्यायति-ईयासमितो गच्छति । अथ चक्षुर्भीता - दर्शनभीताः संहितास्ते मिलिताः कुमारादयो हत्वा हत्वा पांशुमुष्ठ्यादिभिबहवश्चक्रन्दुः हलबोलं चक्रुः ॥५॥ शयनेषु - वसतिषु गृहस्थतीर्थिकै
य॑तिमिश्रेषु स्त्रियस्तत्राऽसौ परिज्ञाय मोक्षमार्गाऽर्गलाभूताः । सागारिकं मेथुनं न सेवेत । स स्वयं वैराग्यमार्ग प्रवेश्य ध्यायति ।।६।। ये केचन इमे अगारस्थाः-गृहस्थास्तैर्मिश्रीभावमुपगतोऽपि मिश्रीभावं प्रहाय स ध्यायति । पृष्टोऽपि नाभिभाषते स्म गच्छत्येव मोक्षपथं नातिवर्तते ऋजुः ॥७॥ न सुकरमेतदेकेषां यन्नाभिभाषते चाऽभिवादयतः । हतपूर्वश्च दण्डैषितपूर्वश्चाऽल्पपुण्यैः - पुण्यहीनैः अनायः ॥८॥ किंच
फरुसाइं दुत्तितिक्खाइ अइअच्च मुणी परक्कममाणे । आघाय नट्टगीयाई दण्डजुधाई मुट्ठिजुद्धाइं ॥९॥ गढिए मिहुकहासु समयंमि नायसुए विसोगे अदक्खु । एयाइ से उरालाई, गच्छइ नायपुत्ते असरणयाए ॥१०॥ अवि साहिए दुवे वासे सीओदं अभुच्चा निक्खन्ते । एगत्तगए पिहियच्चे से अहिन्नायदंसणे सन्ते ॥११॥
परुषाणि-वाग्दुष्टानि दुस्तितिक्षाणि अतिगत्य मुनि पराक्रममाणस्तितिक्षते । आख्यातगीतनृत्यानि दण्डयुद्धानि मुष्टियुद्धानि उद्दिश्य कौतुकादिरहितो भवति ॥९॥ गृद्धान् मिथःकथासु तस्मिन् समये ज्ञातसुतः वर्धमानस्वामी विशोकः - मध्यस्थोऽद्राक्षीत् । एतानि दुःखानि उदारणि - दुष्प्रधृष्याणि अस्मरन् गच्छति - पराक्रमते ज्ञातपुत्रः अस्मरणाय अशरणाय वा शरणं-गृहं नात्र शरणमस्तीत्यशरणः संयमस्तस्मै ॥१०॥ अपि साधिके द्वे वर्षे
१०६
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126