Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
शीतोदकमभुक्त्वा निष्क्रान्तः एकत्वगतः पिहितार्चः-पिहितक्रोधज्वालो गृप्ततनुर्वा स अभिज्ञातदर्शनः शान्तः ||११||
स एवम्भूतो भगवान् गृहवासेऽपि सावद्यारम्भत्यागी, किं पुनः प्रव्रज्यायामिति दर्शयितुमाह -
पुढविं च आउकायं च तेउकायं च वाउकायं च । पणगाई बीयहरियाई तसकायं च सव्वसो नच्चा ॥ १२॥ एयाइं सन्ति पडिलेहे, चित्तमन्ताइ से अभिन्नाय । परिवज्रिय विहरित्था इय संखाय से महावीरे ||१३|| अदु थावरा य तसत्ताए, तसा य थावरत्ताए । अदुवा सव्वजोणिया सत्ता कम्मुणा कप्पिया पुढो बाला || १४ || भगवं च एवमन्नेसिं सोवहिए हु लुप्पइ बाले । कम्मं च सव्वसो नच्चा तं पडियाइक्खे पावगं भगवं ॥ १५ ॥ दुविहं समिच्च मेहावी किरीयमक्खायऽणेलिसं नाणी । आयाणसोयमइवायसोयं जोगं च सव्वसो णचा ॥१६॥
पृथ्वीं चाऽप्कायं च तेजः कायं च वायुकायं च पनकानि बीज - हरितानि सकायं च सर्वशो ज्ञात्वा तदारम्भं परिवर्ज्य विजहार स भगवानिति सम्बन्धः ॥ १२ ॥ एतानि भूतानि सन्तीत्येवं प्रत्युपेक्ष्य तथा चित्तवन्ति स अभिज्ञाय परिवर्ज्य विजहार एतत् संख्याय स महावीरः ॥१३॥ अथ स्थावराश्च त्रसतया, त्रसाश्च स्थावरतया विपरिणमन्ते अथवा सर्वयोनिकाः सत्वाः कर्मणा कल्पिताः-व्यवस्थिताः पृथक्तया बाला:रागद्वेषाSS कलिता 119811 भगवाश्चैवममन्यत सोपधिकः द्रव्यभावोपधियुक्तः खलु लुप्यते बालः कर्मणेति, कर्म च सर्वशो ज्ञात्वा तत्-कर्म प्रत्याख्यातवान् तदुपादानं च पापकर्मानुष्ठानं भगवान् ॥१५॥ द्विविधं कर्म ईर्याप्रत्ययं साम्परायिकं च समेत्य मेधावी क्रियां संयमानुष्ठानरुपाम् आख्यातवान् अनीदृशीं ज्ञानी । आदीयते कर्मानेनेति आदानं दुष्प्रणिहितमिन्दियम् आदानं च तत् श्रोतश्चादानश्रोतस्तत्, अतिपातस्रोतः प्राणातिपातस्रोत उपलक्षणार्थत्वादस्य मृषावादादिकमपि ज्ञात्वा योगं मनोवाक्कायलक्षणं च सर्वशो ज्ञात्वा || १६|| किंच -
अइवत्तियं अणाउट्टि सयमन्नेसिं अकरणयाए । जस्सित्थिओ परिन्नाया सव्वकम्मावहा उसे अदक्खु ॥१७॥ अहाकडं न से सेवे सव्वसो कम्म (कम्मुणा) अदक्खू । जं किंचि पावगं भगवं तं अकुव्वं वियर्ड भुंजित्था ॥ १८ ॥ जो सेवइ य परवत्थं परपाए वि से न भुंजित्था । परिवज्जियाण उमाणं गच्छइ
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका ) * १०७

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126