Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
पानकमप्यपीत्वा विजहार । रात्रोपरागम् - अहर्निशम् अप्रतिज्ञः पानाऽभ्युपगमरहितो ग्लानाऽन्नं - पर्युषितम् एकदा भुक्तवान् ॥६।। षष्ठेनैकदा भुङ्क्ते, अथवा अष्टमेन दशमेन । द्वादशमेनैकदा भुङ्क्ते प्रेक्षमाणः समाधिम् अप्रतिज्ञः अनिदानः ॥७॥ ज्ञात्वा हेयोपादेयं स महावीरो नाऽपि च पापकं कर्म स्वयमकार्षीत् । अन्यैर्वा नाऽचीकरत्, क्रियमाणमपि नानुज्ञातवान् ।।८।। किंच
गामं पविसे नगरं वा घासमेसे कडे परवाए । सुविसुद्धमेसिया भगवं आयतजोगयाए सेवित्था ॥९॥ अदु वायसा दिगिछत्ता जे अन्ने रसेसिणो सत्ता । घासेसणाए चिट्ठति सययं निवइए य पेहाए ॥१०॥ अदुवा माहणं च समणं वा गामपिण्डोलगं च अतिहिं वा । सोवागमूसियारि वा कुकुरं वावि विट्ठियं पुरओ ॥११॥ वित्तिच्छेयं वजन्तो तेसिमप्पत्तियं परिहरन्तो । मन्दं परक्कमे भगवं अहिंसमाणो घासमेसित्था ॥१२॥ अवि सूइयं वा सुकं वा सीयं पिंडं पुण्णकुम्मासं । अदु बुक्कसं पुलागं वा लद्धे पिंडे अलद्धे दविए ॥१३॥ अवि झाइ से महावीरे आसणत्थे अकुक्कुए झाणं । उडुढं अहे तिरियं च पेहमाणे समाहिमपडिन्ने ॥१४॥ अकसाइ विगयगेही य सहरूवेसु अमुच्छिए झाइ । छउमत्थोऽवि परक्कममाणो न पमायं सइंपि कुवित्था ॥१५॥ सयमेव अभिसमागम्म आयतजोगमायसोहीए । अभिनिबुडे अमाइल्ले आवकहं भगवं समियासी ॥१६॥ एस विही अणुक्कतो, माहणेण मइमया । बहुसो अपडिन्नेण, भगवया एवं रीयन्ति ॥१७॥ तिबेमि ।
ग्रामं प्रविश्य नगरं वा ग्रासमेषयेत् कृतं-निष्पन्नं परार्थाय । सुविशुद्धमेषित्वा भगवान् आयतयोगतया-संयतयोगतया सेवितवान् ॥९॥
अथ श्लोकत्रयेण एषणाविधिमाह - अथ वायसा बुभुक्षार्ता येऽन्ये रसैषिणः पानार्थिनः पारापतादयः सत्त्वाः प्राणिनः । ग्रासैषणतया तिष्ठन्ति तान् सततं निपतितान् च प्रेक्ष्य ।।१०।। अथवा ब्राह्मणं च श्रमणं वा ग्रामपिण्डोलगं - द्रमकं चाऽतिथिं वा । श्वपाकं मार्जारी वा कुकुर वाऽपि विस्थितं पुरतः
॥११॥ वृत्तिच्छेदं वर्जयन् तेषामप्रीतिकं च परिहरन् । मन्दम् आहारार्थी पराक्रमते तथा भगवान् कुन्थुकादीन् अहिंसन् ग्रासमेषितवान् ।।१२।।
अपि स्वेदितम्-आर्टीकृतं वा शुष्कं वा शीतं पिण्डं पुराणकुल्माषम् अथवा बुक्कसं-गोधूममण्डकादि पुलाकं - यवनिष्पावादि वा लब्धे पिण्डे अलब्धे वा द्रविकः-रागद्वेषरहितः सन् आत्मानं दातारं वा न जुगुप्सते ।।१३।। अपि तु ध्यायति स महावीर आसनस्थः अकौत्कुचः मुखविकारादिरहितो
११४
* श्री आचारागसूत्रम् (अक्षरगमनिका)

Page Navigation
1 ... 121 122 123 124 125 126