Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 122
________________ कथं दुःखसहो भगवान् इत्येतद् दृष्टान्तद्धारेण दर्शयितुमाह - शूरः सङ्गामशिरसीव संवृतस्तत्र-लाढादिजनपदे स महावीरः । प्रतिसेवमानः परुषान् दुःखविशेषान् अचलो भगवान् रीयते स्म ॥१३॥ एष विधिरनुक्रान्तो यावत् रीयन्ते पूर्ववत् ।।१४।। इति ब्रवीमि । ॥ अध्ययनं ९ : उद्देशकः ४ ॥ ___इहानन्तरोद्देशे भगवन्तः परीषहोपसर्गाधिसहनं प्रतिपादितं तदिहापि रोगातकपीडाचिकित्साव्युदासेन सम्यगधिसहते तदुत्पत्तौ च नितरां तपश्चरणायोयच्छतीत्येतत्प्रतिपाद्यते - ओमोयरियं चाएइ अपुढेवि भगवं रोगेहिं । पुढे वा अपुढे वा नो से साइजइ तेइच्छं ॥१॥ संसोहणं च वमणं च गायब्भंगणं च सिणाणं च । संबाहणं च न से कप्पे दन्तपक्खालणं च परिन्नाए(य) ॥२॥ विरए गामधम्मेहिं रीयइ माहणे अबहुवाइ । सिसिमि एगया भगवं छायाए झाइ आसीय ॥३॥ आयावइ य गिम्हाणं अच्छइ उक्कुडुए अभितावे । अदु जाव इत्थ लूहेणं ओयणमंथुकुम्मासेणं ॥४॥ एयाणि तिन्नि पडिसेवे अट्टमासे अ जावयं भगवं । अपि इत्थ एगया भगवं अद्धमासं अदुवा मासंपि ॥५॥ अवि साहिए दुवे मासे छप्पि मासे अदुवा विहरित्था (अपिबित्ता) । राओवरायं अपडिन्ने अन्नगिलाणमेगया भुंजे ॥६॥ छटेण एगया भुंजे अदुवा अट्ठमण दसमेणं । दुवालसमेण एगया भुंजे पेहमाणे समाहि अपडिन्ने ॥७॥ णचा णं से महावीरे नोऽविय पावगं सयमकासी । अन्नेहिं वा ण कारित्था कीरंतंपि नाणुजाणित्था ॥८॥ अवमोदरतां शक्नोति कर्तुमस्पृष्टोऽपि भगवान् रोगैः । श्वभक्षणादिभिः स्पृष्टो वा कासश्वासादिभिरस्पृष्टो वा न स स्वादयति-अभिलषति चिकित्साम् ॥१॥ संशोधनं-विरेचनं च वमनं च गात्राऽभ्यङ्गनं च स्नानं च । संबाधनं च न तस्य कल्पते दन्तप्रक्षालनं च शरीरशुच्यात्मकमिति परिज्ञया ॥२॥ विरतो ग्रामधर्मेभ्यः - विषयेभ्यो रीयते माहनः अबहुवादी । शिशिरे एकदा भगवान् छायायां ध्यायी आसीत् च ॥३।। आतापयति च ग्रीष्मेषु तिष्ठति उत्कुटुकः अभितापम् । अथ यापयति स्म देहं रूक्षेण ओदनमन्थकुल्माषेण ॥४॥ एतदेव कालावधिविशेषणतो दर्शयितुमाह - एतानि - ओदनादीनि त्रीणि-ओदनमन्थुकुल्माषरूपाणि प्रतिसेवते । एवम् आत्मानं ऋतुबद्धसंज्ञकान् अष्ट मासान् अयापयत् भगवान् । पीतवान् पानम् एकदा भगवान् अर्धमासं अथवा मासमपि ।।५।। अपि साधिकौ द्वौ मासौ अथवा षडपि मासान् श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) * ११३

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126