Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
ध्यानम् । उर्ध्वमधस्तिर्यग् लोकस्य व्यवस्थितान् जीवपरमाण्वादीन् भावान ध्येयरूपेण, कथंभूतः सन इत्याह - प्रेक्षमाणः समाधिमप्रतिज्ञः ।।१४।। अकषायी विगतगृद्धिश्च शब्दरूपेष्वमूर्छितो ध्यायति । छद्मस्थोऽपि पराक्रममाणो न प्रमादं सकृदपि अकार्षीत् ॥१५।। स्वयमेव तत्त्वम् अभिसमागम्य - तीर्थप्रवर्तनायोद्यतवान् आयतयोगं सुप्रणिहितयोगं आत्मशुद्ध्या । अभिनिवृत्तः शीतीभूतः अमायी यावत्कथं भगवान् समित आसीत् ।।१६।। एष विधिरनुक्रान्तो भगवता रीयते - पराक्रमतेऽपरोऽपि मुमुक्षुरनेनैव पथा ॥१७।। इति ब्रवीमि ।
इति ब्रह्मचर्यश्रुतस्कन्धः ॥ श्रीदेव-गुरु-वाग्देवी-प्रसादानिर्मिता मया । आचाराङ्गाद्यभागस्याऽक्षरगमनिकाऽमला ॥१॥
श्री आचारागसूत्रम् (अक्षरगमनिका) *
११५

Page Navigation
1 ... 122 123 124 125 126