Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 121
________________ एवंविधे जननदे षण्मासावधिं कालं स्थितवान् । किंच - ...... ईदृक्षो जनो यत्र तत्र भगवान् विहतवान भूयो, बहवो जना वज्रभूमौ पुरुषाशिनः रूक्षभोजिनोऽत एव प्रकृतिक्रोधनास्ततो यतिरूपमुफ्लभ्य कदर्थयन्ति अत एव यष्टिं गृहीत्वा नालिकां वा गृहीत्वाऽन्ये श्रमणाः - शाक्यादयस्तत्र च विजयुः ॥५॥ एवं यष्ट्यादिकयाऽपि विहरन्तः स्पृष्टपूर्वाः पीडिता आसन् श्वभिः शौनिकैर्वा तथा संलुच्यमानाः - भक्ष्यमाणाः श्वभिरासन्, दुश्चराणि ग्रामादीनि तत्र लाढेष्विति ॥६।। निधाय - त्यक्त्वा मनोवाक्कायलक्षणं दण्डं प्राणिषु तथा तं कायं व्युत्सृज्याऽनगारः । अथ ग्रामकण्टकान् नीचजनरूक्षाऽऽलापान् भगवानध्यास्ते तान् । निर्जरामभिसमेत्य ।।७।। कथमधिसहत इति दृष्टान्तद्वारेण दर्शयितुमाह नागो संगामसीसे वा पारए तत्थ से महावीरे । एवंपि तत्थ लाढेहिं अलद्धपुब्बोवि एगया गामो ॥८॥ उवसंकमन्तमपडिन्नं गामंतियम्मि अप्पत्तं । पडिनिक्खमित्तु लूसिंसु एयाओ परं पलेहित्ति ॥९॥ हयपुब्बो तत्थ दण्डेण अदुवा मुट्ठिणा अदु कुन्तफलेण । अदु लेलुणा कवालेण हन्ता हन्ता बहवे कन्दिसु ॥१०॥ मंसाणिं (मंसूणि) छिन्नपुवाणि उटुंभिया एगया कायं । परीसहाई लुंचिंसु अदुवा पंसुणा उवकरिंसु ॥११॥ उच्चालइय निहणिंसु अदुवा आसणाउ खलइंसु । वोसट्टकायपणयाऽऽसी दुक्खसहे भगवं अपडिन्ने ॥१२॥ सूरो संगामसीसे वा संवुडे तत्थ से महावीरे । पडिसेवमाणे फरुसाइं अचले भगवं रीयित्था ॥१३॥ एस विही अणुक्कन्तो माहणेण मइमया । बहुसो अपडिण्णेण भगवया एवं रीयंति ॥१४॥ त्ति बेमि ॥ नागः सङ्गामशीर्षे इव पारगस्तत्राऽसौ महावीरः अधिसहते । एवमपि तत्र लाढेषु पारगोऽभूत । किं च - तत्र विरलत्वाद् ग्रामाणां क्वचिदेकदा वासायाऽलब्धपूर्वो ग्रामोऽपि भगवता ॥८॥ किंच - उपसङ्क्रामन्तमप्रतिज्ञ ग्रामान्तिकमप्राप्तं ते जना ग्रामात् प्रतिनिष्क्रम्य भगवन्तमलूषिषुः एतच्चोचुः - इतः परं-दूरतरं स्थानं पर्येहि - गच्छेति ॥९॥ हतपूर्वस्तत्र दण्डेन अथवा मुष्टिना अथवा कुन्तादिफलेन अथवा लेष्टुना कपालेन वा हत्वा हत्वा बहवः अनार्याश्चक्रन्दुः ।।१०।। भगवतो मांसानि छिन्नपूर्वाणि, अवष्टभ्य - आक्रम्य एकदा कायम्, तथा परीषहा भगवन्तमलुञ्चिषुः, अथवा पांशुनाऽवकीर्णवन्तः ॥११॥ किंच - भगवन्तमुच्चालयित्वा निहतवन्तः अथवा आसनाच्च स्खलितवन्तः । स तु पुनर्युत्सृष्टकायः परीषहसहनं प्रति प्रणतः आसीत् दुःखसहो भगवान् अप्रतिज्ञः नास्य दुःखचिकित्साप्रतिज्ञा इति ।।१२।। ११२ * श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126