Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
ऐहलौकिकान् मनुष्यकृता दण्डप्रहारादयस्तान् पारलौकिकान् दिव्यास्तैरश्चाश्च तान् यदिवा परत्र... पीडयन्ति कामभोगाः अनुकुलोपसर्गास्तानित्यर्थः, भीमाननेकरूपान् स्पर्शान् अपि सुरभिगन्धान् दुर्गन्धान् शब्दाननेकरूपानधिसहते ॥९॥
अहियास सया समिए फासाई विरूवरूवाई । अरई रई अभिभूय रीयइ माहणे अबहुवाई ॥१०॥ स जणेहिं तत्थ पुच्छिंसु एगचरावि एगया राओ । अव्वाहिए कसाइत्था पेहमाणे समाहिं अपनेि ॥११॥ अयमंतरसि को इत्थ ? अहमंसित्ति भिक्खु आट्टु । अयमुत्तमे से धम्मे तुसिणीए कसाइए झाइ ||१२|| जंसिप्पेगे पवेयन्ति सिसिरे मारुए पवायन्ते । तंसिप्पेगे अणगारा हिमवाए निवायमेसन्ति ॥ १३ ॥ संघाडीओ पवेसिस्सामो एहा य समादहमाणा । पिहिया च सक्खामो अइदुक्खे हिमगसंफासा ॥ १४ ॥ तंसि भगवं अपडिने अहे विगडे अहियासए । दविए निक्खम्म एगया राओ ठाइए भगवं समियाए || १५ || एस विही अणुक्कन्तो माहणेण मइमया । बहुसो अपडिण्णेण भगवया एवं रीयन्ति ॥ १६ ॥ त्तिबेमि ।
-
संयमेऽरति अध्यास्ते सदा समितः स्पर्शान् विरूपरूपान् । अरतिं रतिमभिभूय - उपभोगाभिष्वङ्गे च रतिं तिरस्कृत्य रीयते माहनः अबहुवादी कुतश्चिन्निमित्ते एकद्विव्याकरणं कृतवान् इति || १० || स जनैस्तत्र - शून्यगृहादौ पृष्टः, एकचराः उपपत्याद्या अपि पप्रच्छुः एकदा रात्रौ । अव्याहृते च भगवता ते कषायिता दण्डमुष्ट्यादिभिस्ताडयन्ति तत् प्रेक्षमाणः समाधिम् अप्रतिज्ञः वैरनिर्यातनाभावात् तितिक्षते 119911 अयमन्तः कोऽत्र व्यवस्थितः ? इति पुष्टः क्वचिज्जल्पत्यपि, तथाहि अहं भिक्षुरस्मीति, तूर्णमितो आहृत्य-जल्पित्वा तिष्ठति तदा ते अभिप्रेतार्थव्याघाताद् ब्रूयुः निर्गच्छ । ततोऽचियत्तावग्रहः अप्रीतिस्थानमिति कृत्वा निर्गच्छत्येव । यदिवा न निर्गच्छत्येव, किन्तु अयम् उत्तमो धर्मः आचार इति कृत्वा स तूष्णीकः कषायितेऽपि गृहस्थे ध्यायति ध्यानान्न प्रच्यवते ||१२||
-
-
-
-
-
-
-
यस्मिन्नप्येके प्रवेपन्ते प्रवेदयन्ति वा दुःखमनुभवन्ति शिशिरे मारुते प्रवाति सति तस्मिन्नप्येके अनगाराः - पार्श्वनाथतीर्थप्रव्रजिता गच्छ्वासिनो हिमवाते निवातमेषन्ति - वातायनादिरहिता वसतीः प्रार्थयन्ति ||१३|| किंच संघाटीः कल्पद्वयं त्र्यं वा प्रवेक्ष्यामः, एवं शीतार्दिता अनगारा अपि विदधति, तीर्थिकप्रव्रजितास्त्वेधाः समिधश्च-काष्ठानि समादहन्तः तथा सङ्घाट्या वा पिहिताः शक्ष्यामः अतिदुःखान् हिमस्पर्शान् सोढुमिति
११० * श्री आचाराङ्गसूत्रम् ( अक्षरगमनिका )

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126