Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 118
________________ एगया वासो ॥३॥ एएहिं मुणी सयणेहिं समणे आसि पतेरसवासे । राइं दिवंपि जयमाणे अपमत्ते समाहिए झाइ ॥४॥ णिपि नो पगामाए, सेवइ भगवं उट्ठाए । जग्गावइ य अप्पाणं इसि साइ य अपडिन्ने ॥५॥ संबुज्झमाणे पुणरवि आसिसु भगवं उट्ठाए । निक्खम्म एगया राओ बहि चंकमिया मुहुत्तागं ॥६॥ सयणेहिं तत्थुवसग्गा भीमा आसी अणेगरूवा य । संसप्पगा य जे पाणा अदुवा जे पक्खिणो उवचरन्ति ॥७॥ अदु कुचरा उवचरन्ति गामरक्खा य सत्ति-हत्था य । अदु गामिया उवसग्गा इत्थी एगइया पुरिसा य ॥८॥ इहलोइयाई परलोइयाई भीमाइं अणेगरूवाइं । अवि सुभिदुन्भिगन्धाइं सहाई अणेगरूवाइं ॥९॥ चर्यायाम् आसनानि शय्याश्च एका या उक्ता आचक्ष्व तानि शय्याऽऽसनानि यानि - सेवितवानसौ महावीरः ॥१॥ प्रश्नप्रतिवचनमाह-आवेशने-सकुड्यशून्यगृहे सभाप्रपासु पण्यशालासु एकदा वासः । अथवा पलितस्थानेषु-अयस्कारादिकर्मस्थानेषु मञ्चोपरिव्यवस्थितपलालपुञानामध एकदा वासः ॥२॥ आगान्तारे प्रसङ्गायाता आगत्य वा यत्र तिष्ठन्ति तत्तथा तस्मिन् आरामगारे तथा च नगरे वा एकदा वासः । श्मशाने शून्यागारे कुड्यरहितगृहे वा वृक्षमूले वा एकदा वासः ॥३॥ एतेषु मुनि शयनेषु समनाः श्रमणो वाऽऽसीत् प्रत्रयोदशवर्षाणि प्रकर्षण त्रयोदशं वर्षं यावत् । रात्रिं च दिवाऽपि यतमानः अप्रमत्तः समाहितो ध्यायति ॥४॥ किंच-निद्रामपि न प्रकामतः सेवते भगवान् उत्थाय । जागरयति चाऽऽत्मानम् ईषत् स्वापी - अस्थिकग्रामे व्यन्तरोपसर्गान्ते अन्तर्मुहूर्त सकृन्निद्राप्रमाद आसीत् । अपि चाऽप्रतिज्ञः-स्वापाभ्युपगमपूर्वकं न शयितेति ॥५॥ संबुध्यमानः पुनरपि अप्रमत्त आसीद् भगवानुत्थाय । निष्क्रम्य एकदा रात्रौ बहिश्चक्रम्य मुहूर्तं निद्राप्रमादाऽपनयनार्थं ध्याने स्थितवान् इति ॥६॥ शयनेषु वसतिषु तत्र उपसर्गा भीमा आसन्ननेकरूपाश्च । संसर्पकाश्च-अहिनकुलादयो ये प्राणिनोऽथवा ये पक्षिणस्ते उपचरन्ति-उपसर्गयन्ति ।।७।। अथ कुचराः चौर पारदारिकादय उपचरन्ति ग्रामरक्षाश्च शक्तिहस्ताश्च .. शक्तिकुन्तादिहस्ताः । अथ ग्रामिकाः ग्रामधर्माश्रिता रूपदर्शनादिना उपसर्गाः स्यु । स्त्री काचित् पुरुषाश्चोपसर्गयेयुः ॥८॥ ... किंच - . श्री आचारागसूत्रम् (अक्षरगमनिका) * १०९

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126