Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
युद्धार्ह मानुष्यमौदारिकशरीरं वा खलु दुर्लभं यथाऽत्र कुशलैः परिज्ञाविवेको भाषित, : तथाहि - धर्मात् च्युतो बालोऽज्ञः खलु गर्भादिषु रज्यते । 'रिज्जई 'त्ति पाठान्तरमाश्रित्य गर्भादिषु रीयते - गच्छतीत्यर्थः । अस्मिन् च मौनीन्द्रप्रवचने एतत् - पूर्वोक्तं वक्ष्यमाणं च प्रोच्यते यथारूपे च - रूपादिषु क्षणे - हिंसादिषु वा यः प्रवर्तते स गर्भादिषु गच्छति । यस्तु निवर्तते स जितेन्द्रियः खलु एक संविद्धपथः क्षुण्णपथः ‘संविद्धभयो’ पाठान्तरमाश्रित्य दृष्टभयो मुनिः स्यात्, अन्यथा - कषायाभिभूतं हिंसादिषु प्रवृत्तं लोकमुत्प्रेक्षमाणः एवं हिंसादिभिः कर्म परिज्ञाय सर्वतः स न हिनस्ति । किंच- संयमयति नो प्रगल्भते, उत्प्रेक्षमाणः प्रत्येकं सातं वर्णादेशी - कीर्तिश्लाघार्थी सन् नारभते कञ्चन पापारम्भं, यदिवा तपः संयमादिकं नारभते, यद्वा रूपाद्यभिलाषुकः सन् नोद्वर्तनादिकमारभते । सर्वलोके एक प्रमुखो विदिक्प्रतीर्णो - मोक्षसंयमादन्या दिक् तां प्रकर्षेण तीर्ण इति, विदिक्प्रतिज्ञो वा निर्विण्णचारी प्रजासु प्राणिषु अरतः आरम्भाप्रवृत्तो निर्ममत्वो वा नारभते कञ्चनेति ।। १५५।।
-
यश्च प्रजास्वरतः आरम्भरहितः स किम्भूतः स्याद् इति आह
-
-
-
से वसुमं सव्वसमन्नागयपन्नाणेणं अप्पाणेणं अकरणिज्जं पावकम्मं तं नो अन्नेसी, जं संमंति पासहा तं मोणंति पासहा, जं मोणंति पासहा तं संमंति पासहा, न इमं सकं सिटिलेहिं अद्दिजमाणेहिं गुणासाएहिं वंकसमायारेहिं पमत्तेहिं गारमावसंतेहिं, मुणी मोणं समायाए धुणे सरीरगं पंतं लुहं सेवंति वीरा सम्मत्तदंसिणो, एस ओहन्तरे मुणी, तिण्णे मुत्ते विरए वियाहिए त्ति बेमि ॥१५६॥
स वसुमान् संयमी सर्वसमन्वागतप्रज्ञानेन सम्यक स्वीकृत - सर्वसदसद्विवेकेन आत्मना अकरणीयं पापकर्म तद् नो अन्वेषति । यत् सम्यक् प्रज्ञानं सम्यक्त्वं वा इति एतत् पश्यत तद् मौनं- मुनित्वम् इति एतत् पश्यत यद् मौनम् इति एतत् पश्यत् तत् सम्यक्त्वं इति एतत् पश्यत सम्यक्त्वज्ञानचरणानामेकताऽध्यवसेयेति भावार्थः 1 न सम्यक्त्वादित्रयम् अनुष्ठातुं शिथिलैः आर्द्रीयमानैः स्नेहादाद्रक्रियमाणैः, गुणास्वादैः-विषयलम्पटैः, वक्रसमाचारैः प्रमत्तैः अगारमावसद्भिः आद्याक्षरलोपात् गृहस्थैः ।
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका ) * ६३
-
एतत् पुत्रकलत्रादिमायाविभिः मुनिर्मीनं संयमं

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126