Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
केचित्तु मध्यमवयसि समुत्थिता अपि परीषहेन्द्रियैग्लनतां नीयन्त इति दर्शयितुमाह आहारोवचया देहा परीसहपभंगुरा पासह एगे सव्विंदिएहिं परिगिलायमाणेहिं ॥ सू० २०५॥
आहारोपचया देहा येषां ते आहारोपचितदेहा अपि परीषहभङ्गुराः पश्यत एके सर्वेन्द्रियैः परिग्लायमानैः क्लीबतामीयुः ||२०५ ||
विदितवेद्यश्च परीषहपीडितोऽपि किं कुर्यादित्याह -
ओए दयं दयइ, जे संनिहाणसत्थस्स खेयन्ने से भिक्खू कालन्ने बलन्ने मायन्ने खणन्ने विणयन्ने समयन्ने परिग्गहं अममायमाणे कालेणुट्ठाई अपडिने दुहओ छित्ता नियाई || सू० २०६ ॥
ओजः रागद्वेषरहितो दयां दयते पालयति I यः सन्निधानशास्त्रस्य - सम्यग् निधीयते नारकादिगतिषु येन तत्सन्निधानं कर्म तस्य शास्त्रं तस्य खेदज्ञः निपुणो, यदिवा सन्निधानशस्त्रस्य सन्निधानस्य कर्मणः शस्त्रं संयमः सन्निधानशस्त्रं तस्य खेदज्ञः स भिक्षुः कालज्ञो बलज्ञो मात्रज्ञः क्षणज्ञो विनयज्ञः समयज्ञः परिग्रहं अममायमानः कालेनोत्थायी अप्रतिज्ञो द्विधा - रागेण वा द्वेषेण वा या प्रतिज्ञा तां छित्त्वा संयमानुष्टाने निर्यातीति ||२०६||
तस्य च संयमानुष्ठाने परिव्रजतो यत्स्यात्तदाह
तं भिक्खुं सीयफासपरिवेवमाणगायं उवसंकमित्ता गाहावई बूया - आउसंतो समणा ! नो खलु गामधम्मा उव्वाहंति, आउसंतो गाहावई ! नो खलु मम गामधम्मा उव्वाहंति, सीयफासं च नो खलु अहं संचाएमि अहियासित्तए, नो खलु मे कप्पइ अगणिकायं उज्जालित्तए वा पज्जालित्तए वा कार्य आयावित्तए वा पयावित्तए वा, अन्नेसिं वा वयणाओ, सिया स एवं वयंतस्स परो अगणिकायं उज्जालित्ता पज्जालित्ता कायं आयाविज्ज वा, पयाविज्ज वा तं च भिक्खू पडिलेहाए आगमित्ता आणविज्जा अणासेवणाए त्ति बेमि ॥सू० २०७॥
·
तं भिक्षु शीतस्पर्शपरिवेपमानगात्रमुपसंक्रम्य शंकमानो गृहपति ब्रूयात् भो आयुष्मन् श्रमण ! न खलु त्वां - भवन्तं ग्रामधर्मा - विषया उद्बाधन्ते ? साधुराह - आयुष्मन् गृहपते ! न खलु मां ग्रामधर्मा उद्बाधन्ते, शीतस्पर्शं च न खलु अहं शक्नोमि अधिसोढुम् । न खलु मे कल्पते अग्निकायमुज्वालयितुं
* श्री आचाराङ्गसूत्रम् (अक्षरममनिका)
९०

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126