Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 98
________________ न केवलं गृहस्थेभ्यः अकल्प्यमिति न गृह्यते येऽपि असमनोज्ञाः तेभ्यो दातुमपि न कल्पत इत्याह - से समणुन्ने असमणुन्नस्स असणं वा जाव नो पाइजा नो निमंतिजा नो . कुजा वेयांवडियं परं आढायमाणे त्ति बेमि ॥सू० २०२॥ स समनोज्ञः असमनोज्ञाय अशनं वा यावन्नो प्रदद्याद नो निमन्त्रयेद नो कुर्याद् वैयावृत्त्यं परम् आद्रियमाण इति ब्रवीमि ॥२०२।। किम्भूतस्तर्हि किम्भूताय दयादित्याह - धम्ममायाणह पवेइयं माहणेण मइमया समणुन्ने समणुन्नस्स असणं वा जाव कुञा वेयावडियं परं आढायमाणे ति बेमि ॥सू० २०३॥ . धर्मम् आजानीत प्रवेदितं माहनेन मतिमता यथा समनोज्ञः समनोज्ञाय अशनं वा यावत् प्रदद्यात् कुर्याद् वैयावृत्यं परम् आद्रियमाण इति ब्रवीमि ॥२०३।। ॥ अध्ययन-८ : उद्देशकः-३ ॥ अशनायादानप्रदाने समनोज्ञः अधिकृतः । इहापि समनोज्ञः प्रव्रज्याया अर्हः । स कस्मिन् काले प्रव्राज्येत तदुच्यते । __ मज्झिमेणं वयसावि एगे संबुज्झमाणा समुढ़िया, सुचा मेहावी वयणं पंडियाणं निसामिया समियाए धम्मे आरिएहिं पवेइए ते अणवकंखमाणा अणइवाएमाणा अपरिग्गहेमाणा नो परिग्गहावंती सव्वावंती च णं लोगंसि निहाय दंडं पाणेहिं पावं कम्मं अकुबमाणे एस महं अगंथे वियाहिए ओए जुइमस्स खेयन्ने उववायं चवणं च नचा ॥सू० २०४॥ मध्यमेन वयसाऽपि एके सम्बुध्यमानाः समुत्थिताः । श्रुत्वा मेधावी वचनं पण्डितानां निशम्य अवधार्य समतामालम्बेत, यतः समतया धर्म आर्यैः प्रवेदितः । ते भोगान् अनवकासन्तः, प्राणिन अनतिपातयन्तः, परिग्रहं अपरिगृह्णन्तः, न परिग्रहवन्तो भवन्ति सर्वस्मिन् लोके । किञ्च निधाय क्षिप्त्वा त्यक्त्वा परितापकारिणं दण्डं प्राणिषु प्राणिभ्यो वा पापं कर्म अकुर्वाण एष महान् अग्रन्थः निग्रंथो व्याख्यातः । ओजः-एको रागद्वेषरहितः, द्युतिमतः-संयमस्य खेदज्ञो देवलोकेऽपि उपपातं च्यवनं च ज्ञात्वा, अनित्यताऽऽहितमतिः पापकर्मवर्जी स्यादिति ॥२०४।। श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) * ८९

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126