Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 106
________________ कषायज्वाला समाहिता - उपशमिता अर्चा येन स तथा फलकावस्थायी - तक्ष्यमाणोऽपि दुर्वचनवास्यादिभिः कषायाभावतया फलकवदवतिष्ठते इति फलकावस्थायी - वासीचन्दनंकल्प इत्यर्थः, फलकापदर्थी फलं कर्मक्षयरूपं तदेव फलकं तेन आपदि संसारभ्रमणरूपायाम् अर्थः स विद्यते तस्य तथा फलकाऽऽपदर्थी । यदिवा फलकवत् वास्यादिभिरुभयतो बाह्यतोऽभ्यन्तरतश्चावकृष्टः अभ्युद्यतमरणार्थमुत्थाय भिक्षुरभिनिर्वत्तार्चः शरीरसन्तापरहित इङ्गितमरणं कुर्यादिति ॥२१८।। __कथं कुर्यादित्याह - अणुपविसित्ता गामं वा नगरं वा खेडं वा कब्बडं वा मडंबं वा पट्टणं वा दोणमुहं वा आगरं वा आसमं वा सन्निवेसं वा नेगमं वा रायहाणिं वा तणाई जाइजा तणाई जाइत्ता से तमायाए एगंतमवक्कमिजा, एगंतमवक्कमित्ता अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए अप्पोसे अप्पोदए अप्पुत्तिंगपणगदगमट्टियमक्कडासंताणए पडिलेहिय २ पमज्जिय २ तणाई संथरिजा, तणाई संथरित्ता इत्थवि समए इत्तरियं कुजा, तं सचं सच्चवाई ओए तिन्ने छिन्नकहकहे आईयढे अणाईए चिच्चाण भेउरं कायं संविय विरूवरूवे परीसहोवसग्गे अस्सि विस्संभणयाए भेरवमणुचिन्ने तत्थवि तस्स कालपरियाए जाव आणुगामियं त्ति बेमि ॥सू० २१९॥ अनुप्रविश्य ग्रामं वा नगरं वा खेटं वा कर्बर्ट वा मडम्बं वा पत्तनं वा द्रोणमुखं वा आकरं वा आश्रमं वा सन्निवेशं वा नैगमं वा राजधानी वा तृणानि याचेत । तृणानि याचित्वा स नानि आदाय एकान्तं-गिरिगुहादिकम् अपक्रामेत्, एकान्तमपक्रम्य अल्पाण्डे अल्पशब्दः सर्वत्राऽभाववाची अल्पप्राणे अल्पबीजे अल्पहरिते अल्पावश्याये अल्पोदके अल्पोत्तिङ्गपनकोदकमत्तिकामर्कटसन्तानके महास्थण्डिले प्रत्युपेक्ष्य २ प्रमृज्य २ तृणानि संस्तरेत् । तृणानि संस्तीर्य उच्चारप्रस्रवणभूमिं च प्रत्युपेक्ष्य पूर्वाभिमुखसंस्तारकगतः करललाटस्पर्शिघृतरजोहरणः कृतसिद्धनमस्कारः आवर्तितपञ्चनमस्कारः अत्रापि समये इत्वरिकं - नियतप्रदेश-प्रचाराऽभ्युपगमादिङ्गितमरणं न तु साकारं प्रत्याख्यानं कुर्यात्, तद् इङ्गितमरणं सत्यं - सद्भ्यो हितं सुगतिगमनाऽविसंवादित्वात् सर्वेज्ञोपदेशाच्च । तथा स्वतोऽपि सत्यवादी • ओजस्तीर्णः छिन्नकथंकथः - छिन्ना कथमपि कथा विकथारूपा येन स श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) * ९७

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126