Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 110
________________ ॥ अध्ययनं-८ : उद्देशकः-८॥ अनन्तरं रोगादिसंभवे उद्यतमरणविधानमुक्तं इह तु तदेवानुपूर्विविहारिणामुच्यते - अणुपुब्वेण विमोहाई, जाई धीरा समासज्ज वसुमन्तो मइमन्तो, सव्वं नचा अणेलिसं ॥१॥ दुविहंपि विइत्ता णं, बुद्धा धम्मस्स पारगा । अणुपुब्बीइ संखाए, आरंभाओ (य) (कम्मुणाओ) तिउट्टइ ॥२॥ कसाए पयणू किच्चा, अप्पाहारे तितिक्खए । अह भिक्खू गिलाइजा, आहारस्सेव अन्तियं ॥३॥ जीवियं नाभिकंखिजा, मरणं नोवि पत्थए, दुहओऽविन सजिजा, जिवीए मरणे तहा ॥४॥ ____ आनुपूर्व्या विमोहानि यानि - भक्तपरिजेङ्गितमरणपादपोपगमनानि समासाद्य धीरा वसुमन्तः संयमिनो मतिमन्तः सर्व-कृत्याकृत्यं ज्ञात्वाऽअनीदृशं समाधिमनुपालयेत् ॥१॥ किंच-द्विविधमपि बाह्यान्तरभेदभिन्नतपो विदित्वाआसेव्य यद्वा बाह्य-शरीरोपकरणादि आभ्यन्तरं-रागादि त्यक्त्वा बुद्धा धर्मस्य पारगा आनुपूर्व्या मरणकालं संख्याय - ज्ञात्वा आरम्भतश्च शरीरधारणायाऽन्नपानाद्यन्वेषणात्मकात् त्रुट्यति पाठान्तरं - 'कम्मुणाओ तिउट्टइ' सुगमम् ॥२॥ स चाऽभ्युद्यतमरणाय संलेखनां कुर्वन् प्रधानभूतां भावसंलेखना कुर्यादित्येतद्दर्शयितुमाह - ___कषायान् प्रतनून् कृत्वा अल्पाहारस्तितिक्षते । अथ भिक्षुग्लायेत्, आहारस्यैवान्तिकं पर्यवसानं व्रजेद, समीपं वा न व्रजेत्, तथाहि . क्षणे मूर्च्छन्नाहारस्यैवान्तिकं - पर्यवसानं व्रजेदिति संलेखनाक्रमं विहायाशनं विदध्यादित्यर्थः, यदिवा ग्लानतामुपगतः सन्नाहारस्यान्तिक-समीपं न व्रजेत् ॥३॥ किंच तत्र संलेखनायां व्यवस्थितः सर्वदा वा जीवितं नाभिकाङ्केत्, मरणं नाऽपि प्रार्थयेत् । उभयतोऽपि न सजेत् जीविते मरणे तथा ॥४॥ किभूतस्तर्हि स्यादित्याह - मज्झत्थो निजरापेही, समाहिमणुपालए अन्तो बहिं विऊस्सिन्ज, अज्झत्थं सुद्धमेसए ॥५॥ जं किंचुवक्कम जाणे, आउखेमस्समप्पणो । तस्सेव अन्तरद्धाए, खिप्पं सिक्खिज पंडिए ॥६॥ गामे वा अदुवा रणे, थंडिलं पडिलेहिया । अप्पपाणं तु विन्नाय, तणाई संथरे मुणी ॥७॥ अणाहारो तुयट्टिन्जा, पुट्ठो तत्थऽहियासए । नाइवेलं उवचरे, माणुस्सेहि विपुट्ठवं ॥८॥ संसप्पगा य जे पाणा, जे य उड्डमहाचरा । भुंजन्ति मंससोणियं, न छणे न पमजए ॥९॥ पाणा देहं विहिंसन्ति, ठाणाओ नवि उन्भमे आसवेहि विवित्तेहिं, तिप्पमाणोऽहियासए ॥१०॥ श्री आचारागसूत्रम् (अक्षरगमनिका) * १०१

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126