Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
चाऽऽत्मनाऽनुसंवेदनमित्युक्तं
ननु तच्च नैयायिकादीनामात्मनो गुणभूतेनैकार्थसमवायिना ज्ञानेन भवति तथा भवतामपि उतान्यथा ? उच्यते -
जे आया से विन्नाया, जे विन्नाया से आया, जेण वियाणइ से आया, तं पडुच्च पडिसंखाए, एस आयावाइ समियाए परियाए वियाहि तिबेमि ॥ सू०१६६॥
भिन्नेन
य आत्मा स विज्ञाता, यो विज्ञाता स आत्मा, येन विजानाति स आत्मा । तं ज्ञानपरिणामम् प्रतीत्य आत्माऽऽत्मना प्रतिसङ्ख्यायते - व्यपदिश्यते । एष ज्ञानाऽऽत्मनोरेकत्वस्याऽभ्युपगन्ता आत्मवादी स्यात् । तस्य च सम्यग्भावेन शमितया वा पर्यायः संयमानुष्ठानरूपो व्याख्यात इति ब्रवीमि ।।१६६|| ॥ अध्ययनं - ५ | उद्देशकः-६ ॥
अनन्तरं सम्यग्भावेन संयमानुष्ठानरूपः पर्यायो व्याख्यातः, इहापि स एव प्रतिपाद्यते
अणाणाए एगे सोवट्ठाणा आणाए एगे निरुवट्ठाणा, एयं ते मा होउ, एयं कुसलस्स दंसणं, तद्दिट्ठीए तम्मुत्तीए तप्पुरक्कारे तस्सन्नी तन्निवेसणे ॥ सू० १६७॥
तीर्थकृत आचार्यस्य वा अनाज्ञया अनाज्ञायां वा प्रवर्तमाना एके दुर्गतिगामिनः सोपस्थानेन धर्मचरणाभासोद्यमेन वर्तन्ते इति सोपस्थानाः । आज्ञायाम् एके तु आलस्यादिना निरुपस्थानाः निरुद्यमाः । एतत् - कुमार्गानुष्ठानं सन्मार्गावसीदनं च ते मा भवतु । एतत् पूर्वोक्तं वक्ष्यमाणं च कुशलस्य तीर्थकृतो दर्शनम् । अतः सदा तद्दृष्ट्या तदा तीर्थकर आचार्य आगमो वा वाच्यः, तन्मुक्त्या, तत्पुरस्कारः तत्संज्ञी, तन्निवेशनः स्यात् || १६७ ||
स एवंभूतः किंगुणः स्यादित्याह -
अभिभूय अदक्खु अणभिभूए पभू निरालंबणयाए जे महं अबहिमणे, पवाएण पवायं जाणिज्जा, सहसंमइयाए परवागरणेणं अन्नेसिं वा अंतिए सुच्चा ॥ सू० १६८॥
परिषहोपसर्गान् घातिचतुष्टयं वा अभिभूय अद्राक्षीत् तत्त्वम् उपसर्गैः परतीर्थिकैर्वा सोऽनभिभूतः प्रभुः समर्थो निरालम्बनतया 'जिनवरवचनमन्तरेण नास्ति शरणं क्वचिल्लोके' इति भावनया यो महान् अणिमाद्यैश्वर्यदर्शनादपि तीर्थकृद्वचनाद् अबहिर्मनाः सन् प्रवादेन-आचार्यपारम्पर्योपदेशेन सर्वज्ञवाक्येन वा प्रवादं सर्वज्ञोपदेशं
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका ) *
६२

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126