Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 79
________________ तीर्थिकप्रवादं वा जानीयात् सहसम्मत्या-मिथ्यात्वकलङ्करहितया मत्या परव्याकरणेन-तीर्थकृदागमेन अन्येषां वा आचार्यादीनामन्तिके श्रुत्वा यथावस्थितवस्तुसद्भावमवधारयेदिति ॥१६८।। अवधार्य च किं कुर्यादित्याह - निद्देसं नाइवठूजा मेहावी सुपडिलेहिया सवओ सव्वप्पणा सम्म समभिण्णाय, इह आरामं परिणाय अल्लीणगुत्तो आरामो परिब्बए निद्रियट्ठी वीरे आगमेण सया परक्कमे ॥ सू० १६९॥ निर्देश-तीर्थकृदाधुपदेशं नातिवर्तेत मेधावी समुत्प्रेक्ष्य सर्वतः सर्वात्मना सम्यक् समभिज्ञाय । इह - मनुष्यलोके आरामं - संयमं परिज्ञाय आलीनो गप्तश्च परिव्रजेत निष्ठितार्थी- निष्ठितो-मोक्षस्तेनार्थी यद्वा निष्ठितः-परिसमाप्तोऽर्थो यस्य सः । वीर आगमेन सर्वज्ञप्रणीताचारादिना सदा पराक्रमेथा इति ब्रवीमि ।।१६९।। किमर्थं पौनः पुन्येनोपदेशदानमित्याह - उढं सोया अहे सोया, तिरियं सोया वियाहिया । एए सोया विअक्खाया, जेहिं संगति पासह ॥१॥ आवढं तु पेहाए इत्थ विरमिज वेयवी, विणइत्तु सोयं निक्खम्म एस महं अकम्मा जाणइ पासइ पडिलेहाए नावकंखइ इह आगई गई परिन्नाय ॥ सू० १७०॥ ऊर्ध्वं श्रोतांसि-वैमानिकसुखनिदानम्, अधः श्रोतांसि भवनपतिसुखाभिलाषः, तिर्यकश्रोतांसि- व्यन्तरमनुष्यतिर्यग्विषयेच्छा, यदिवोर्ध्वाधस्तिर्यग्लोके विषयोपभोगस्थानानि व्याहितानि-स्वधर्मपरिणत्या जनितानि । एतानि च कर्माश्रवद्वाराणीतिकृत्वा स्रोतांसीव स्रोतांसि व्याख्यातानि यैः सङ्गमिति पश्यत । यस्मात् एभिश्च कर्मानुषङ्गस्तस्मात् स्रोतांसीत्युपदिश्यते, यथा - आगमेन सदा पराक्रमेथा इति ॥१॥ किंच आवर्त-भावावर्तं तु प्रेक्ष्याऽत्र-विषयकषायरुपे भावावर्ते विरमेद वेदविद - आगमविद् । पाठान्तरं 'विवेगं कित्तइ वेयवी'त्याश्रित्य कर्मविवेकम् अभावं किर्तियति वेदविद् । विनेतुम् अपनेतुं स्रोतो निष्क्रम्य एष महान् अकर्मा जानाति पश्यति । एवंभूतो दिव्यज्ञानी सुरनरोपहितां पूजामुपलभ्य तामसारां प्रत्युपेक्ष्य नावकाङ्क्षति । इह आगतिं गतिं च परिज्ञाय तत्कारणं च निराकरोति ।।१७०।। ७० * श्री आचारागसूत्रम् (अक्षरगमनिका)

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126