________________
तन्निराकरणे च यत्स्यात्तदाह
अच्चेइ जाइमरणस्स वट्टमग्गं विक्खायरए, सव्वे सरा नियट्टंति, तक्का जत्थ न विज्जइ, मइ तत्थ न गाहिया, ओए, अप्पइट्ठाणस्स खेयन्ने, से न दीहे न हस्से न वट्टे न तंसे न चउरंसे न परिमंडले न किण्हे न नीले न लोहिए न हालिदे न सुकिल्ले न सुरभिगंधे न दुरभिगंधे न तित्ते न कडुए न कसाए न अंबिले न महुरे न कक्खडे न मउए न गरुए न लहुए न उन्हे न निद्धे न लुक्खे न काऊ न रुहे न संगे न इत्थी न पुरिसे न अन्नहा, परिन्ने सन्ने उवमा न विज्जए, अरूवी सत्ता अपयस्स पयं नत्थि ॥ सू १७१॥
-
अत्येति जातिमरणस्य वर्त्म मार्गं व्याख्यातरतः मोक्षरतः । मुक्तात्मा किम्भूत इति चेत्, न तत्र शब्दानां प्रवृत्तिरित्याह-सर्वेस्वराः ध्वनयो निवर्तन्ते, तर्को यत्र न विद्यते मतिस्तत्र न ग्राहिका, ओजः एकोऽशेषमलकलङ्काङ्करहितः, अप्रतिष्ठानस्य - औदारिकादिशरीररूपप्रतिष्ठानाऽभावात् मोक्षस्य खेदज्ञः । स न दीर्घो न ह्रस्वो न वृत्तो न त्र्यस्त्रो न चतुरस्त्रो न परिमण्डलो न कृष्णो न नीलो न लोहितो न हारिद्रो न शुक्लो न सुरभिगन्धो न दुरभिगन्धो न तिक्तो न कटुको न कषायो नाम्लो न मधुरो न कर्कशो न मृदुर्न लघुर्न गुरुर्न शीतो नोष्णो न स्निग्धो न रूक्षो, न कापोतलेश्यावान् यदिवा न कायवान, न रुहो, न सङ्गवान्, न स्त्री न पुरुषो, नाऽन्यथा न नपुंसकः, परिज्ञः संज्ञः तज्ज्ञानसुखयोर्वा उपमा न विद्यते, अरूपी सत्ता, न विद्यते पदम् - अवस्थाविशेषो यस्य स अपदस्तस्य अपदस्य पदम्-अभिधानं नास्ति वाच्यविशेषाभावादिति ।। १७१ ।।
अनन्तरं दीर्घ इत्यादि विशेष निराकरणं कृतम । इह तु सामान्यनिराकरणं कर्तुकाम आह - सेन सद्दे न रूवे न गंधे न रसे न फासे इच्चेव त्तिबेमि || सू० १७२ ॥ स न शब्दरूपः, न रूपात्मा, न गन्धः, न रसः, न स्पर्श इत्येवेति ब्रवीमि ॥१७२॥
॥ ६ ॥ धूताध्ययनं - ६ : उद्देशकः - १ ॥
-
-
अनन्तरं मुक्तिस्वरूपमुक्तम् इह तु तन्मार्ग कीर्तयतीत्याह
ओबुज्भ्कमाणे इह माणवेसु आघाइ से नरे, जस्स इमाओ जाइओ सव्वओ सुपडिलेहियाओ भवंति, आघाइ से नाणमणेलिसं, से किट्टइ तेसि समुट्ठियाणं निक्खित्तदण्डाणं समाहियाणं - पन्नाणमंताणं इह मुत्तिमग्गं, एवं (अवि ) एगे
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका ) *
७१