________________
तत्र-मरणकाले स खलु पारङ्गामी मुनिः . -अविहन्यमानः परीषहोपसर्गः फलकावस्थायी फलकवदवतिष्ठते न कातरी भवतीति । कालोपनीतः - मृत्युकालेनान्यवशतां प्रापितः काङ्केत् कालं-मरणकालं यावत् शरीरभेदो भवति तावत् । न पुनर्जीवस्य विनाशोऽस्तीति ब्रवीमि ॥१९३॥
( सप्तममध्ययनं व्युच्छिन्नम् )
॥ ८॥ विमोक्षाध्ययन-८ : उद्देशकः-१ ॥ अनन्तरसूत्रे शरीरादिविधूननेन निःसङ्गताऽभिहिता । सा च दर्शनशुद्धौ सत्यां साफल्यमनुभवतीत्यत्र सैव दर्शनशुद्धिः प्रतिपाद्यते ।
से बेमि समणुन्नस्स वा असमणुन्नस्स वा असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुच्छणं वा नो पादेजा नो निमंतिजा नो कुञा वेयावडियं परं आढायमाणे ति बेमि ॥सू० १९४॥ ____सोऽहं ब्रवीमि समनोज्ञाय-समनोज्ञो दृष्टितो लिङ्गतो न तु भोजनादिभिस्तस्मै, असमनोज्ञाय वा शाक्यादिभ्यो वा अशनं वा पानं वा खादिमं वा स्वादिमं वा वस्त्रं वा पतद्ग्रहं वा कम्बलं वा पायपुञ्छनं वा नो प्रदद्यात् नो निमन्त्रयेत् न कुर्याद् कैयावृत्यं परम्-अत्यर्थम् आद्रियमाणः आदरवान् न कुर्यादुक्तरुपम् इत्यर्थः ।।१९४।।
किचः -
धवं चेयं जाणिज्जा असणं वा जाव पायपंछणं वा लभिया नो लभिया भुंजिया नो भुजिया पंथं विउत्ता विउक्कम विभत्तं धम्मं जोसेमाणे समेमाणे चलेमाणे पाइजा वा निमंतिजा वा कुजा वेयावडियं परं अणाढायमाणे त्ति बेमि ॥१९५॥ .
ते हि शाक्यादय एवं ब्रूयुः- ध्रुवं चैतज्जानीयात्- अशनं वा यावत् पादपुञ्छनं वा भवद्भिरन्यत्र लब्ध्वा वा अलब्ध्वा वा भुक्त्वा वा अभुक्त्वा वाऽस्मदावसथे-मटेआगन्तव्यं पन्थानं व्यावाऽपि व्युत्क्रम्याऽन्यगृहाणि वेति । किंच- स शाक्यादिर्विभक्तं-पृथग्धर्मं जूषन्-आचरन् समेरन्-समागच्छन् प्रतिश्रयमध्येन कदाचित् तथा गच्छन् चलन्नशनादि प्रदद्याद्वा, अशनादिदानेन निमन्त्रयेद् वा कुर्याद् वैयावृत्यं वा, तत्सर्वं तस्य कुशीलस्य नाभ्युपेयात् । कथं ? परं-अत्यर्थम् अनाद्रियमाणः । एवं हि दर्शनशुद्धिर्भवतीति ब्रवीमि ॥१९५।।
८४
* श्री आचारागसूत्रम् (अक्षरगमनिका)