Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 82
________________ षोडश एते रोगा आख्याता अनुपूर्वशः । अथ स्पृशन्ति आतङ्काः स्पर्शाश्च असमञ्जसाः ||३|| मरणं तेषां सम्प्रेक्ष्य उपपातं च्यवनं च ज्ञात्वा परिपाकं च कर्म्मणां सम्प्रेक्ष्य तदुच्छित्तये यतितव्यमिति ॥४॥ स च करुणं स्तनतीत्यादिना ग्रन्थेनोपपातच्यवनावसानेनावेदितोऽपि पुनरपि तद्गरीयस्त्वख्यापनाय प्राणिनां संसारे निर्वेदवैराग्योत्पत्त्यर्थमभिधित्सुराह - सं सुणेह जहा तहा संति पाणा अंधा तमसि वियाहिया, तामेव सई असई अइअच्चं उच्चावयफासे पडिसंवेएइ, बुद्धेहिं एयं पवेइयं - संति पाणा वासगा रसगा उदए उदए-चरा आगासगामिणो पाणा पाणे किलेसंति, पास लोए महब्भयं ॥सू० १७४॥ तं कर्मविपाकं श्रुणुत यथा तथा-सन्ति प्राणिनः अन्धाः- भावान्धाः तमसि - नरकादौ व्याख्याताः तामेव कुष्ठाद्यवस्थां सकृदसकृद् वाऽतिगत्य उच्चावचान् दुःखान् स्पर्शान् प्रतिसंवेदयन्ति । बुद्धैरेतत् प्रवेदितं सन्ति प्राणिनो वासकाः- वासृ शब्द कुत्सायां वासन्तीति वासका भाषालब्धिसंपन्ना द्वीन्द्रियादयः, रसगाः कटुतिक्तादिरसवेदिनः संज्ञिनः, उदके उदकरूपा उदकचराश्च आकाशगामिनश्च T सर्वेऽपि प्राणिनोऽपरान् प्राणिनः क्लेशयन्ति । पश्य लोके कर्मविपाकाद् महद् भयमिति ।। १७४ ।। - किमिति कर्मविपाकान्महद्भयमित्याह - बहुदुक्खा हु जन्तवो, सत्ता कामेसु माणवा, अबलेण वहं गच्छन्ति सरीरेणं पभंगुरेण अट्टे से बहुदुक्खे इइ बाले पकुव्वइ एए रोगा बहू नच्चा आउरा परियावए नालं पास, अलं तवेएहिं एयं पास मुणी ! महत्भयं नाइवाइज कंचणं ॥सू० १७५ ॥ यस्मात् कर्मविपाकेन बहुदुःखा जन्तवस्तस्मादत्राऽप्रमादवता भाव्यम् । किमित्येवं भूयो भूयः कथ्यत इत्यत आह यस्मादनादि भवाभ्यासेनाऽगणितोत्तरपरिणामाः सक्ताः कामेसु मानवाः क्षणिकसुखार्थं कर्मोपचित्य अबलेनाऽनेकशो वधं गच्छन्ति शरीरेण प्रभङ्गुरेण । मोहोदयात् आर्त स बहुदुःख इति एनं कामानुषङ्गं क्लेशं वा बालः प्रकरोति, यदिवा पूर्वोक्तान् एतान् रोगान् कामान् वा रोगरूपान् बहुन् समुत्पन्नानिति ज्ञात्वा श्री आचारङ्गिसूत्रम् (अक्षरगमनिका ) * ७३

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126