Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
इह-प्रवचन एकेषां एकचर्याभवति तत्र - एकाकिविहारे इतरे सामान्यसाधुभ्यो विशिष्टा इतरेषु - अन्तप्रान्तेषु कुलेषु शुद्धैषणया सर्वेषणया परिव्रजन्ति । एवमेव स मेधावी परिव्रजेत् । सुरभिरथवा दुरभिराहारः स्यात्तत्र रागद्वेषौ न विदध्यात् । अथवा तत्र - एकाकिविहारित्वे भैरवाः प्राणिनोऽपरान् प्राणिनः क्लेशयन्ति । त्वं तु पुनस्तैः स्पृष्टः स्पर्शान् दुःखविशेषान् धीरः सन्नधिसहस्व इति ब्रवीमि ।। १८१ ॥
॥ अध्ययनं - ६ : उद्देशकः - ३ ॥
अनन्तरं कर्मधूननं प्रतिपादितं तच्च नोपकरणशरीरविधूननमन्तरेण भवति, इत्यतस्तद् विधूननार्थमिहोच्यते ।
एवं खु मुणी आयाणं सया सुयक्खायधम्मे विहूयकप्पे निज्झोसइत्ता, जे अचेले परिवुसिए तस्स णं भिक्खुस्स नो एवं भवइ - परिजुण्णे मे वत्थे 'वत्थं जाइस्सामि, सुत्तं जाइस्सामि, सूई जाइस्सामि संधिस्सामि सीविस्सामि उक्कसिस्सामि वुक्कसिस्सामि परिहिस्सामि पाउणिस्सामि, अदुवा तत्थ परिक्कमंतं भुज्जो अचेलं तणफासा फुसंति, सीयफासा फुसंति, तेउफासा फुसंति, दंसमसगफासा फुसंति, एयगरे अन्नयरे विरूवरूवे फासे अहियासेइ अचेले लाघवं, आगममाणे, तवे से अभिसमन्नागए भवइ, जहेयं भगवया पवेइयं तमेव अभिसमिधा सव्वओ सव्वत्ताए संमत्तमेव समभिजाणिज्जा, एवं तेसिं महावीराणं चिररायं पुब्वाई वासाणि रीयमाणाणं दवियाणं पास अहियासियं ॥ १८२ ॥
एतत् वक्ष्यमाणं मुनि आदानं-धर्मोपकरणाऽतिरिक्तं वस्त्रादि सदा स्वाख्यातधर्मा महाव्रतभारवाही विधूतकल्पः क्षुण्णाऽऽचारो निर्दोषयिष्यति अपनेष्यति । योऽचेलः पर्युषितस्तस्य भिक्षोर्नैतद भवति, यथा परिजीर्णं मे वस्त्रम् । अतो वस्त्रं याचिष्यामि, सूत्रं याचिष्यामि, सूचिं याचिष्यामि, सेविष्यामि उत्कर्षयिष्यामि व्युत्कर्षयिष्यामि परिधास्यामि प्रावरिष्यामि । अथवोक्तसर्वं जिनकल्पिकाभिप्रायेण नेयम् । तत्राऽचेलत्वे पराक्रमन्तं भूयोऽचेलं साधुं तृणस्पर्शाः स्पृशन्ति, तेजःस्पर्शा स्पृशन्ति, दंशमशकस्पर्शाः स्पृशन्ति, एकतरान् अन्यतरान् विरूपरूपान् स्पर्शान्नधिसहतेऽचेलः अचलो वा लाघवं द्रव्यत उपकरणलाघवं भावतः कर्मलाघवम् आगमयन् अवगमयन् । एवं तपस्तस्याऽभिसमन्वागतं सोढं भवति । यथेदं भगवता प्रवेदितं तद् लाघवम् उपकरण आहारलाघवं वा
-
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका ) * ७७
-

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126